पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
58
[बालकाण्डः
वाल्मीकेः स्वाश्रमप्रतिनिवर्तनम्

समः-वृत्तरत्नाकरादिछन्दश्शास्त्रप्रतिपाद्यमानगुरुलध्वक्षरवैषम्यरहितः । अत एव तन्त्रीलयसमन्वितः-तन्त्रीसम्बन्धेन गीतियोग्यतया समन्वितस्तथा। तथा नृत्तगीततालादियोग्यतया च समन्वितः । लय:-तालमृदङ्गहस्तपादाभिनयानां समकालविरामः । 'लयस्साम्यम्' इत्यमरः । अतोऽयमुक्तः एवंलक्षणः श्लोक एव भवति नान्यथा । न श्लोकाभासादिः । हे भरद्वाज ! एवमुक्तश्लोकत्व [१]ज्ञानपूर्वं तद्ग्रहश्च ते भवतु-[२]उक्तश्लोकं गृहाणेति यावत् ॥ १८ ॥

 शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।
 प्रतिजग्राह सन्तुष्टस्तस्य तुष्टोऽभवन्मुनिः ॥ १९ ॥

 शिष्यस्त्विति । तस्य मुनेस्तु विशिष्टश्लोकं तद्गृहं च स्वस्मै ब्रुवतः अनुत्तमं वाक्यं शिष्यो भरद्वाजः संहृष्टो भूत्वा द्राक् प्रतिजग्राह-गुरोः अर्थतः पाठतश्च गृहीतवान्, अतस्तस्य गुरुः अहो ते सौबुध्यमिति तुष्टोऽभवत् ॥ १९ ॥

 सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।
 तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥ २० ॥

 सोऽभिषेकमिति । अभिषेकमिति मध्याह्नकर्तव्यक्रियासामान्योपलक्षणम् । तमेवार्थमिति–उक्तश्लोकस्यार्थमिति यावत् । उपावर्ततन्यवर्तत ॥ २० ॥

 भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः ।
 कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥ २१ ॥


  1. तत्वज्ञान-ग.
  2. पूर्वोक्त-ग.