पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
57
वाल्मीकेः स्वशापवचनचिन्तनम्

 तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।
 शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥ १६ ॥

 तस्यैवं—मानुषेत्याद्युक्तरीत्या ब्रुवतः, 'वर्तमानसामीप्ये वर्तमानवत्' इति लटः शता, उक्तवतस्तस्य मुनेस्स्वोक्तमेव च हृदि वीक्षतः-पर्यालोचयतः । छान्दसं परस्मैपदं । चिन्ता-विचारो बभूव । कीदृश इत्यतः-शोकेत्यादि । अस्य शकुनेः-पतिवियुक्तपक्षिणो दर्शनजेन शोकेनार्तेन-दीनेन मया यदिदं व्याहृतं तदिदं किं गद्यरूपं, पद्यरूपं, आहोस्वित् संस्कृतभाषामात्रमिति चिन्ता बभूवेति पूर्वेणान्वयः ॥ १६ ॥

 चिन्तयन् स महाप्राज्ञश्चकार मतिमान् मतिम् ।
 शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥ १७ ॥

 मतिमान्-प्रशस्तबुद्धिः । महाप्राज्ञः-'प्रज्ञाश्रद्धा' इत्यादिना मत्वर्थीयो णः । ऊहापोहसुशब्दापशब्दपद्यगद्यादिविवेचनचतुर इत्यर्थः । अत एवोक्तश्लोकस्य स्वरूपं चिन्तयन् । मतिं-[१]तत्स्वरूपविषयक-निश्चयबुद्धिं चकार । एवं [२]कृत्वा अथ स मुनिपुङ्गवः शिष्यं प्रतीदं -वक्ष्यमाणलक्षणं वाक्यं चाब्रवीत् ॥ १७ ॥

 पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।
 शोकार्तस्य प्रवृत्तो मे श्लोको [३]भवति नान्यथा ॥ १८ ॥

 पक्षिशोकार्तस्य मे प्रवृत्तोऽयं शब्दसन्दर्भः श्लोक एव भवति, कुत इत्यतः-पादबद्ध इत्यादि । 'अष्टाक्षरा गायत्री' इत्यष्टाक्षरगायत्रीपादवत्तया बद्धः-बन्धः यस्य सन्दर्भस्य स तथा । एतेन न गद्यं नापि संस्कृतमात्रमित्युक्तम् । अपि च न केवलं प्राकृतश्लोकमात्रम् । अपि त्वक्षर-


  1. ततः स्वरूप-ग.
  2. कृत्वैव-ग.
  3. भवतु-ङ.