पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
56
[बालकाण्डः
वाल्मीकिशापस्यायुक्तताऽऽक्षेपः, तत्समाधानं च (व्या)

त्मीयानपकारिणि घोरशापप्रवृत्तिः ऋषेः, तत्पापं तेन भुज्यतामित्युपेक्षामात्रस्यैव न्यायप्राप्तत्वात् । तथा हि विश्वामित्रादयः स्वापकारिष्वपि राक्षसादिषु क्षमां कुर्वते "शमो दमस्तपश्शौचं" इत्याद्युपदिष्टसहज-ब्रह्मधर्मपरिपालनाय । अत्रोच्यते-नैष दोषः ; ऋषेरेवंवचनस्य परवशप्रवृत्तत्वात् । किंपारवश्यात् ? भगवन्नियोगात् तन्मुखसन्निहित-देवीवशादेव । कथं तर्हि देव्या आदौ शोकशापश्लोकविभावनं ? ऋषि प्रणेतव्यस्य शोकरसप्राधान्य [१]सिद्ध्यर्थत्वात् । आदिमध्यावसानेषु तथात्वं स्पष्टम् । तथा त्रैलोक्यानर्थसंहाररूपपरममङ्गलस्य तत्तत्काव्यप्रतिपाद्यार्थस्य सत्यसरस्वतीत्वेनान्यापदेशत आदौ प्रतिपादनार्थत्वाच्च । तथा हि—सादयतेः पचाद्यचि 'सदिरप्रतेः' इति षत्वं । [२]नितरां सदेवर्षिगणं त्रैलोक्यमवसादयति पीडयतीति निषादः, तस्य सम्बुद्धिः हे निषाद-रावण । यत्-यस्मात् क्रौञ्चमिथुनात्—अल्पीभावार्थत्वात् क्रुञ्चेर्वा सरूपविधिना पचाद्यचि क्रुञ्चतीति क्रुञ्चः । तस्य भावः क्रौञ्चः, क्रौञ्चयोर्मिथुनं तथा ; राज्यक्षयवनवासादिदुःखेनाल्पीभूतं-परम-कार्श्यं गतं यन्मिथुनं सीतारामलक्षणं तस्यैकमवयवं सीतारूपं, काममोहितं-'धर्माविरुद्धो भूतेषु कामोऽस्मि' इति गीयते, धर्म्यकाम-भोगसुखितं, यत्-यस्मादवधी:-मिथुनादपहृत्य वियुज्यावधिष्ट-वधा-भ्यधिकां पीडां कृतवान् असि, तत्-तस्मादेव, भगवता ते शाश्वतीस्समाः-अनेककोटिकालं, महाजलदुर्ग कनकमयलङ्कापुरे सपुत्रपौत्र-भृत्यगणतया या प्रतिष्ठा दत्ता तां प्रतिष्ठां अतः परं मा गम इति । इदमेव काव्यप्रतिपाद्यं महर्षिणोपदिश्यते-'तदुपगतेत्यादि-दशशिरसश्च वधं निशामयध्वं' इत्येतत्सर्गान्ते । अतस्सत्यसरस्वत्या देव्या परममङ्गलमेव पुरस्तादाविर्भावितमिति योगिकुलाभिध्येयम् ॥ १५ ॥


  1. सिद्धा-ग.
  2. इयं व्याख्या तिलेके अनूद्य विस्तरशो दूषिता ॥