पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
55
निषादं प्रति वाल्मीकिशापः

सहचारिणा-अहोरात्रमिति शेषः । ताम्रशीर्षेण-पुंस्त्वात् कुक्कुटादिवत् ताम्रवर्णशीर्षगतचूडायुक्तेनेति यावत् । मत्तेन-कामसम्भोगवशादिति शेषः । तदेव द्योत्यते-पत्रिणेत्यादिभ्यां; पत्रिणा-सम्भोग-कालत्वाद्विततपक्षवता, सहितेन स्त्रिया, उपर्यधोभागे तया सङ्गतेन । एवं कामभोगावस्थितस्य निषादहननात् पूर्वकालीनस्य मिथुनस्य महर्षेदर्शनं वैशब्देन द्योत्यते ॥ १२ ॥

 तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ।
 ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥ १३ ॥

 तथा तु तमिति । तथा कामभोगदशायामेव तु तं द्विजं निपातितं दृष्टा धर्मात्मनः-दयादाक्षिण्याहिंसामुखधर्मेण प्रवणचित्तस्य महर्षेस्तत एव कारुण्यं घृणा समपद्यत ॥ १३ ॥

 ततः करुणवेदित्वात् अधर्मोऽयमिति द्विजः ।
 निशाम्य रुदतीं क्रौञ्चीं, इदं वचनमब्रवीत् ॥ १४ ॥

 तत इति । ततो द्विजः ऋषिः-रुदतीं क्रौञ्चीं निशाम्य-अवलोक्य अयमधर्म इति निश्चित्य ॥ १४ ॥

 मा निषाद प्रतिष्ठां त्वं अगमः शाश्वतीस्समाः ।
 यत् क्रौञ्चमिथुनादेकं अवधीः काममोहितम् ॥ १५ ॥

 यद्यपि मृगयाविहारिणः क्षत्रियस्य सुतरां निषादस्य च मृगयासु पशुपक्षिहनने न दोषः । तथापि यत्-यस्मात् काममोहितमवधीः, तत्तस्मादेव हेतोस्त्वं क्वचिद्देशे नगरे ग्रामे वा गृहक्षेत्रादिमत्तया प्रतिष्ठां-स्थितिं मा गमः । न केवलमल्पायुषस्तवैकस्यायं शापः, अपि तु सन्तानं-परम्परया शाश्वतीस्समाः-अपारकालव्यापिन्य इति । कथमेवं आत्मा-