पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
54
[बालकाण्डः
व्याधेन क्रोञ्चहननम्

जलूकाचिकित्सा शक्या केनापि ? अतोऽम्मदुच्यमानरीतिं तदुच्यमानं च सम्यक्पर्यालोचयतामिदमुचितमिदमनुचितमिति स्वयमेव सुस्पष्टं भवति । अतस्सर्गस्य द्वित्रस्थले परकीयासङ्गतवादमुद्भावयिष्यामः ॥ ९ ॥

 तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः ।
 जघान वैरनिलयो निषादस्तस्य पश्यतः ॥ १० ॥

 तस्मान्मिथुनात्-पुमांसमेकं तु. अत्र 'पञ्चमी विभक्ते' इति निर्धारणाश्रयात् मिथुनात्पुंसो विभागस्य विद्यमानत्वात्पञ्चमी, तन्मिथु-नस्य प्रतिसंबन्धिभूतमेकमिति निष्कृष्टार्थः । पापनिश्चयः-अनादिपापवासनावासितबुद्धिः । अत एव वैरनिलयः-निजानपकारिप्राणिष्वकारणवैराश्रयः एवंभूतो निषादः, तस्य पश्यतः-पश्यन्तं तमानादृत्य, षष्ठी चानादरे' इति षष्ठी, जघान ॥ १० ॥

 तं शोणितपरीताङ्गं वेष्टमानं महीतले ।
 भार्या तु निहतं दृष्ट्वा रुराव करूणां गिरम् ॥ ११ ॥

 तं वेष्टमानं-लुठन्तं निहतं दृष्ट्वा, निषादेनेति शेषः । करुणां गिरं । गृशब्दे, अस्मात्क्विप् । दीनं शब्दं रुराव । रौतेर्लिट् । अत्र धातुमात्रसामान्ये करोतीत्यर्थमात्रे रौतिः । शब्दमकरोदिति यावत् ॥ ११ ॥

 वियुक्ता पतिना तेन द्विजेन सहचारिणा ।
 ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन च ॥ १२ ॥

 पतित्वादिविशेषणेन तेन द्विजेन वियुक्ताऽभूदित्यन्वयः । अक्रियं वाक्यं अस्ति करोत्यन्यतरक्रियामिति । पतिना-पत्येत्यर्थः नाभावः छान्दसः । भक्ष्याहरणात् पक्ष्यन्तराभिभवादेश्च पातीति तथा ।