दस्मादेव प्रयोगात् स्त्रीलिङ्गत्वं च ।'वल्कं वल्कलमस्त्रियां' इति निघण्ट्वपि । इदमेवेति । नात्यासन्नमपि गङ्गातीर्थम् । माध्याह्निकादिकालातिक्रमादिति शेषः ॥ ६ ॥
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।
प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ ७ ॥
वाल्मीकेनेति । तस्य अपत्यमित्यण् । प्रायच्छतेति छन्दोवशप्राप्तमात्मनेपदम् । गुरोर्नियत इति । सदा सेवापर इति यावत् । अत एव माध्याह्निककालेऽपि सहगमनम् ॥ ७ ॥
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।
विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ॥ ८ ॥
नियतेन्द्रियः-जितेन्द्रिय इति यावत् । विचचार हेति । शौचाचरणप्रसङ्गेन एकान्ततो अनुष्ठानाय चेति शेषः । अत एव शिष्यहस्ताद्वल्कलग्रहपूर्व गमनम् ॥ ८ ॥
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।
ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम् ॥ ९ ॥
तस्येत्यादि । तस्य-वनस्याभ्याशे-समीपे चरन् भगवान्, (स) तत्र तु-तस्मिन् वनाभ्याश एव चरन्तं अनपायिनं आधिव्याधिमृत्युना कायपीडारहितमिति यावत् । अत एव चारुनिस्वनं क्रौञ्चयोर्मथुनं ददर्श । अनपायिनमिति पुल्लिङ्गः छान्दसः । परस्तु प्रतिश्लोकमसङ्गतं प्रलपति । दुर्योजं त्यजति । भावगूढार्थं न वेत्त्येकः । अतिशब्दवार्थं कथयति ।[१] तदस्माभिः उद्भाष्य दूष्यं किं ? मसूरिका-
- ↑ अतः-इति-ग.