धर्मात्मनो[१] भगवतो लोके रामस्य धीमतः ।
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ॥ ३२ ॥
कथं मया कर्तव्यमित्यत्राह-धर्मेति । अस्मिन् लोके इदानीं धर्मात्मनेत्यर्थः ॥ ३२ ॥
रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः ।
रामस्य सहसौमित्रे राक्षसानां च सर्वशः ॥ ३३ ॥
वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः ।
यच्चाप्यविदितं सर्वं विदितं ते भविष्यति ॥ ३४ ॥
यच्चाप्यविदितमिति । प्राकृतदुर्वेदं प्रसङ्गात् काव्यमध्ये [२]वक्तव्यं ब्रह्मरहस्यान्तमलौकिकार्थतत्त्वं लोकायतान्तलौकिकव्यवहारार्थतत्त्वं चेत्यर्थः ॥ ३४ ॥
न ते वागनृता काव्ये काचिदत्र भविष्यति ।
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ॥ ३५ ॥
अनृता-मिथ्यार्था । कुरु रामकथां-रामचरितविषयिणी कथा-[३]काव्यप्रबन्धस्तथा ॥ ३५ ॥
यावत् स्थास्यन्ति गिरयः सरितश्च महीतले
तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥ ३६ ॥
यद्यपि त्वदाज्ञासन्निहितदेव्यनुग्रहात् काव्यं सुकरम् । अथापि तस्य प्रचारणे मम शक्तयभावात् किं तेन प्रयोजनमित्यतः-यावदिति । यावत्तावताववध्यर्थावव्ययौ । प्रचरिष्यतीति । मदनुग्रहात् स्वयमेव लोकेष्विति शेषः ॥ ३६॥