पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
502
[अयोध्याकाण्डः
भरद्वाजदर्शनम्

 धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे ।
 गङ्गायमुनयो[१]स्सन्धौ [२]प्रापतुर्निलयं मुनेः ॥ ८ ॥
 रामस्त्वाश्रममासाद्य त्रासयन् मृगपक्षिणः ।
 गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् ॥ ९ ॥

 गङ्गायमुनयोस्सन्धाविति । अन्तर्वेदिप्रदेश इत्यर्थः । निलयं-आवासम् । प्राप्तुं-'तुमुन् प्वुरौ क्रियायां क्रियार्थायां' इति तुमुन् ; प्राप्स्यन्, तद्धेतोर्मुनेराश्रममासाद्य-तत्समीपवनप्रदेशमासाद्येत्यर्थः । त्रासयन्निति । धनुष्मत्वादिस्वरूपमात्रेण केवलं त्रासहेतुस्सन् । भरद्वाजं-भरद्वाजाश्रममित्यर्थः ॥ ९ ॥

 ततस्त्वाश्रममासाद्य मुनेदर्शनकाङ्क्षिणौ ।
 सीतयाऽनुगतौ वीरौ [३]दूरादेवावतस्थतुः ॥ १० ॥

 दूरादेवावतस्थतुः-अनुमत्यर्थमिति भावः ॥ १० ॥

  [४]संप्रविश्य महात्मानं ऋषिं शिष्यगणैर्वृतम् ।
 [५]संशितव्रतमेकाग्रं तपसा लब्धचक्षुपम् ॥ ११ ॥

 संप्रविश्येति । कार्यवशनिर्गतशिष्यद्वारा विज्ञाप्यानुज्ञाताविति शेषः । तपसा लब्धचक्षुषमिति । त्रैकालिकसर्वजगद्वृतान्ताभिज्ञामित्यर्थः ॥

 हुताग्रिहोत्रं [६]दृष्ट्वैव [७]महाभागं कृताञ्जलिः ।
 रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् ॥ १२ ॥

 दृष्ट्व-ज्ञात्वैव अवसरं विज्ञायेत्यर्थः ॥ १२ ॥


  1. मध्ये-ङ.
  2. सर्वत्र एवमेव पाठो दृश्यते-परन्तु एतद्व्याख्यानुसारेण प्राप्तुरीति स्थाने 'प्राप्तुं तु' इति पाठः स्यादिति भाति । श्लोवद्वयमेकान्वयं चेति ।
  3. सायंतनसमयात्वात् अग्निहोत्रा-वसानं प्रतीक्षमाणाववतस्थतुः इत्यर्थः-गो. विज्ञापनपूर्वकानुमतिलाभार्थमिति भावः-ति.
  4. स प्रविश्य-ङ., च.
  5. संशितव्रतं-तीक्ष्णव्रतं-ति, गो.
  6. दृष्दैव-दर्शनोत्तरकलमेवेत्यर्थः-गो.
  7. महाभागः-च