पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४ सर्गः]
503
भरद्वाजं महात्मानं ते त्रयोऽप्यभ्यवादयन्

 न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः
 पुत्रौ दशरथस्यावां, भगवन् ! रामलक्ष्मणौ ॥ १३ ॥
 भार्या ममेयं वैदेही कल्याणी जनकात्मजा
 मां चानुयाता विजनं तपोवनमनिन्दिता ॥ १४ ॥
 पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः ।
 अयमन्वगमद्भ्राता वनमेव दृढव्रतः ॥ १५ ॥
 पित्रा नियुक्ताः, भगवन् ! प्रवेक्ष्यामस्तपोवनम् ।
  [१]धर्ममेव चरिष्यामः तत्र [२]मूलफलाशनाः ॥ १६ ॥

 धर्ममेवेति । वानप्रस्थधर्ममेव, न तु मृगयादिराजधर्मात् वनप्राप्तिरित्यर्थः । तदेव प्रदर्श्यते-तत्रेत्यादि । पितॄनियोगतः प्रवेष्टव्यवन इत्यर्थः ॥ १६ ॥

 तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
 उपानयत धर्मात्मा गामर्ध्यमुदकं ततः ॥ १७ ॥

 गामर्ध्यमिति । गां-मधुपर्कमिति यावत् । तथा हि स्मृतिः 'गोमधुपर्कार्हो । वेदाध्याय्याचार्यऋत्विक्स्नातको राजा वा धर्मयुक्तः' इति ॥ १७ ॥

 नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।
 तेभ्यो ददौ तप्ततपाः वासं चैवाभ्यकल्पयत् ॥ १८ ॥

 नानाविधान्-नानाप्रकारानू, अन्नरसान्-अद्यत इत्यन्न अन्नानि ; रसाः पानीयविशेषाः तान्-वन्यमूलफलाश्रयानेव, न तु जानपदान् ॥ १८ ॥


  1. धर्ममेवाचरि-च.
  2. मूलफलमिति असंस्कृताहारसामान्यपरम् । अतः पूर्व मांसग्रहणं न विरुद्धम् ।