पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
504
[अयोध्याकाण्डः
भरद्वाजदर्शनम्

 [१] मृगपक्षिभिरासनिः मुनिभिश्च समन्ततः ।
 राममागतमभ्यर्च्[२]स्वागतेनातिथिं मुनिः ॥ १९ ॥

 आसीन इति । अभ्यर्च्य आसीनोऽभवदिति योजना ॥ १९ ॥

 प्रतिगृह्य च तामर्चां उपविष्टं स राघवम् ।
 भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ॥ २० ॥
 [३]चिरस्य खलु, काकुत्स्थ ! पश्यामि त्वामिहागतम् ।
 [४]श्रुतं तव मया चेदं विवासनमकारणम् ॥ २१ ॥
 अवकाशो विविक्तोऽयं महानद्योस्समागमे ।
 पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम् ॥ २२ ॥
 एवमुक्तस्तु वचनं भरद्वाजेन राघवः ।
 प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥ २३ ॥
 भगवन्नित आसन्नः पौरजानपदो जनः
 सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम् ॥ २४ ॥
 आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः ।
 अनेन कारणेनाहमिह वासं न रोचये ॥ २५ ॥

 इत आसन्न इति । एतदाश्रमादासन्नदेशवर्ती प्रेक्ष्य आगमिष्यतीति मन्य इति योजना ॥ २४-२५ ॥


  1. मृगपक्ष्यादीनां सौहार्दाभिधानेनैवं ऋषिमाहारभ्यं प्रकटितम्
  2. य स्वागतेनाह तं-ङ., स्वागतेनागतं-च.
  3. अनेन पूर्वमपि कदाचिदागमनं ध्वनितम् । पूर्वरामावतारकालिकमागमनं मनसि निधाय वा एषोक्तिः-ति. चक्षुषाद्यगोचर त्वामेव मनसि सततमनुसन्दधानोऽहं चिरकालस्य इह मम पुरतः चक्षुषा पश्यामीत्याश्चर्यम्-ती. वस्तुतस्तु निषादसख्यादिपरिशीलनाय पूर्वमपि रामेण मृगयादेहेतोः अत्रागमनं सम्भावनार्हमनेन दृढीकृतम् ॥
  4. श्रुतमिति । स्वत्त इति शेषः अकारणं तव विवासनं श्रुतं-स्वत्तः श्रुतं तव विवासनमकारणमिति वाऽन्वयः । यद्वा--अन्यमुखात् श्रुतं किंवदन्त्याः शीघ्रव्यापनशीलत्वात् ।