पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४ सर्गः]
505
अतिथीनार्चयत् प्रीत्या भरद्वाजो महातपाः

 एकान्ते पश्य, भगवन् ! आश्रमस्थानमुत्तमम् ।
 [१]रमते यत्र वैदेही सुखार्हा जनकात्मजा ॥ २६ ॥

 पश्यति । ज्ञात्वा निर्दिशेत्यर्थः ॥ २६ ॥

 एतत् श्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः ।
 राघवस्य ततो वाक्यं अर्थग्राहकमब्रवीत् ॥ २७ ॥

 [२]अर्थग्राहकं-राघवोक्तप्रयोजनप्रतिपादकम् ॥ २७ ॥

 दशक्रोश इतः, तात ! गिरिर्यस्मिन्निवत्स्यसि
 महर्षिसेवितः पुण्यः [३]सर्वतः सुखदर्शनः ॥ २८ ॥

 दशक्रोश इति सप्तम्यन्तम् ॥ २८ ॥

 गोलाङ्गूलानुचरितः वानरर्क्षनिषेवितः ।
 चित्रकूट इति ख्यातः गन्धमादनसन्निभः ॥ २९ ॥

 गोलाङ्गूलः-xxxxx ॥ २९ ॥

 यावता चित्रकूटस्य नरः शृङ्गाण्यवेक्षते ।
 कल्याणानि समाधत्ते न [४]पापे कुरुते मनः ॥ ३० ॥

 यावत्-यदा अवेक्षते तदेति योजना । समाधत्त इति । मनसेति शेषः ॥ ३० ॥

 ऋषयस्तत्र बहवः विहृत्य शरदां शतम् ।
 तपसा दिवमारूढाः कपालशिरसा सह ॥ ३१ ॥


  1. रमेत-ङ.
  2. अर्थग्राहकं-बह्वर्थवत्-गो.
  3. पर्वतः-च.
  4. मोहे-च.