पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
506
[अयोध्याकाण्डः
भरद्वाजदर्शनम्

  [१]दुर्भिक्षमृतनृकपालवत् पलितं-शुक्लं शिरस्तथा मध्यमपदलोपी समासः, तादृशेन शिरसा सह-एवमतिवृद्धदशायामपि तपश्चरन्तः तादृशेन पूर्णेन यावज्जीवानुष्ठितेन तपसा स्वसहजब्राह्मतन्त्रज्ञानयोग-वैभवेन दिवं-परनाकं-ब्रह्मकुलसहजलोकं-ब्रह्मलोकमारूढाः-प्राप्ता इत्यर्थः । [२]अन्यस्तु-कपालशिरसा-देहेन सह स्वर्गं गताः इत्याह-तदानीं तथैव वक्तव्यत्वतः अयं शिरोवेष्टनप्राणायामः असङ्गतः । एतत्कायकुणपः स्वर्गस्याप्यनर्ह इति सर्वथैव त्याग आवश्यकः । दाशरथिधर्मपुत्रादयः धर्मवैभवप्रदर्शनाय कियद्दूरं प्राप्तव्यमण्डलप्राप्तेः प्रागेव तत्कुणपं निरस्य दिव्यपुण्यदेहं विद्यादेहं वा प्राप्य स्वं स्वं धाम गच्छन्ति । अतो नेदं ब्रह्मकुलस्य सशरीर निर्याणं पुमर्थः । अतो न किञ्चित्प्राशस्त्यम् ॥ ३१ ॥

 प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् ।
 [३]इह वा वनवासाय वस, राम ! मया सह ॥ ३२ ॥

 वनवासाय-तद्वासनियमसिद्धये मया सह इह वा वस अद्येति शेषः ॥ ३२ ॥


  1. निरन्तरकपालासनेन प्रक्षीणत्वक्छिरोरुहतया कपालावशिष्टशिरसा सह दिवमारूढा इत्यर्थः । कपालशिरसेत्येतत् शरीरोपलक्षणम् । सशरीराः स्वर्गं गता इत्यर्थः । यद्वा कपालशिरा इति कस्यचिदृषेः संज्ञा । कपालशिरसा- कपालरूपशिरोयुक्तेनेत्यध्याहृतशरीरपदविशेषणमित्येके । कपालमात्रावशिष्टं शिरो यस्मिन्निति तपोविशेषणमित्येके-गो.
  2. अन्यस्तु इत्युच्यमानः-गोविन्दराजः, महेशतीर्थो वा स्यात् । अयं भागः तिलके एवमनूदितो दृश्यते-'केचित्तु कपालशिरसेति शरीरोपलक्षणं-सशरीराः स्वर्गं गता इत्याहुः । तन्न-धर्मपुत्रादीनामपि कियद्दूरमेव धर्मवैभवदर्शनाय एतच्छरीरेण गमनम् । ततस्तन्निरासपूर्वकमेव स्वर्गगमनश्रवणादिति कतकः' इति । परन्त्वयमर्थानुवादः स्यादपि ।
  3. एवं चित्रकूटवासनिदेशनात् स्वाश्रमे रामवासः स्वाननुमतः इति प्रतीतिनिवारणाय, लोकरीत्या च' इहैव वा बस' इत्युक्तिः ।