पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४ सर्गः]
507
चित्रकूटगिरौ वासं ऐच्छत् तेषां महामुनिः

 स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् ।
 सभार्यं सह च भ्रात्रा [१]प्रतिजग्राह [२]धर्मवित् ॥ ३३ ॥

 स राममिति । तद्रजन्यां तत्र वसन्तमिति शेषः ॥ ३३ ॥

 तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः ।
 प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥ ३४ ॥

 प्रयागे रजनी प्रपन्ना-प्राप्ता ॥ ३४ ॥

 सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः ।
 भरद्वाजाश्रमे [३]रम्ये तां रात्रिभवसत् सुखम् ॥ ३५ ॥
 प्रभातायां रजन्यां तु भरद्वाजमुपागमत् ।
 उवाच नरशार्दूलः मुनिं ज्वलितचेतसम् ॥ ३६ ॥
 शर्वरीं भगवन्नद्य, सत्यशील ! तवाश्रमे ।
 उषिताः [४]स्मेह वसतिं अनुजानातु नो भवान् ॥ ३७ ॥

इह-तवाश्रमे शर्वरीमुषिताः स्म । अतः परं वसतिं-त्वदुद्दिष्ट-चित्रकूटवासगमनं प्रत्यनुजानातु । भरद्वाजो रामेण तथा प्रार्थित इति शेषः ॥ ३७ ॥

 रात्र्यं तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् ।
 मधुमूलफलोपेतं चित्रकूटं [५]व्रजेति ह ॥ ३८ ॥

 व्रजेति इति । अनुजज्ञ इति शेषः ॥ ३८ ॥

 वासमौपयिकं मन्ये तव, राम ! महाबल !

 [६]प्राक् व्युत्पत्तिमात्रं प्रदर्शितम्, उचितमित्यर्थः ॥


  1. रामं प्रतिजग्राह-सत्कारैर्वशीकृतवानित्यर्थः । स्वागतेन स्वीकृतवानिति वा
  2. हर्षयन्-च.
  3. पुण्ये-ङ.
  4. स्मो ह-च.
  5. व्रजेति अब्रवीदित्यन्वयः ।
  6. गतसर्गे ३० श्लोकव्याख्यायां औपयिकपदस्येति शेषः ।