पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
508
[अयोध्याकाण्डः
भरद्वाजदर्शनम्

 [१]नानानगगणोपेतः किन्नरोरगसेवितः ।
 मयूरनादाभिरुतः [२]गजराजनिषेवितः ॥ ३९ ॥
 गम्यतां भवता शैलः चित्रकूटः स विश्रुतः ।
 पुण्यश्च रमणीयश्च बहुमूलफलायुतः ॥ ४० ॥
 तत्र कुञ्जरयूथानि मृगयूथानि चाभितः ।
 विचरन्ति वनान्तेऽस्मिन् तानि द्रक्ष्यसि, राघव ! ॥ ४१ ॥
 सरित्प्रस्रवणप्रस्थान् [३]दरीकन्दरनिर्दशन् ।
 चरतः सीतया सार्धं [४]नन्दिष्यति मनस्तव ॥ ४२ ॥

 सरित्प्रस्रवणेनोपेताः प्रस्थास्तथा । दर्यः, कन्दरादिः, निर्दशः-निर्झराश्च तथा । दरी-गिरिगुहा । कन्दराः-वृक्षमूलकोटराः ॥ ४२ ॥

 प्रहृष्टकोयष्टिभकोकिलखनैः
  विनादितं तं वसुधाधरं शिवम् ।
 मृगैश्च मत्तैः बहुभिश्च कुञ्जरैः
  सुरम्यमासाद्य समावसाश्रमम् ॥ ४३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुःपञ्चाशः सर्गः


 कोयष्टिभः-टिट्टिमः-xxxxx(?) । आलाव (४३ १/२) मानः सर्गः ॥ ४३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुःपञ्चाशः सर्गः



  1. नानामर-ङ.
  2. गजवाजि-ङ.
  3. दर्यः-पाषाणसंश्लेषस्थानानि । कन्दराः-गुहाः । निर्दराः-विदीर्णपाषाण-सन्धयः-गो. ।
  4. सीतया सार्धं चरतः तव मनः नन्दिष्यति-सन्तोषं प्राप्स्यति ।