पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५ सर्गः]
509
ततः प्रातः प्रतस्थुस्ते चित्रकूटगिरिं प्रति

पञ्चपञ्चाशः सर्गः

[यमुनातरणम् ]

 उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ ।
 महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ॥ १ ॥

 अथ भरद्वाजस्यानुज्ञया प्रस्थितस्य रामस्य मार्गोपदेशपूर्वं चित्रकूटप्रस्थानम् । उषित्वेत्यादि ॥ १ ॥

 तेषां चैव स्वस्त्ययनं महर्षिः स चकार ह ।
 प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानि [१]वान्वगात् ॥ २ ॥
 ततः प्रचक्रमे वक्तुं वचनं स महामुनिः ।
 भरद्वाजो महातेजाः रामं सत्यपराक्रमम् ॥ ३ ॥

 वचनं वक्तुं प्रचक्रम इति । मर्गोपदेशार्थमिति शेषः ॥ ३ ॥

 गङ्गायमुनयोस्सन्धिं [२]आसाद्य, [३]मनुजर्षभौ !
 कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम् ॥ ४ ॥

 गङ्गायमुनयोः सन्धिं-सङ्गमतीर्थं प्राप्य तदनन्तरं [४]पश्चान्मुखाश्रितां [५]सङ्गमात्पश्चात्प्रदेश एवाश्रितस्वप्रयुक्तव्यवहारां गङ्गां ; सङ्गमानन्तरं गङ्गाया एव व्यवहारः, न तु कालिन्द्याः । कालिन्दी-तदुत्तरतीरं आसाद्य-प्राप्य अनुगच्छेताम् ॥ ४ ॥

 अथासाद्य तु कालिन्दीं [६]शीघ्रस्रोतसमापगाम् ।
 तस्यास्तीर्थं [७]प्रचरितं [८]पुराणं प्रेक्ष्य, राघवौ ! ॥ ५ ॥


  1. वान्वशात्-ङ., वौरसान्-च
  2. आदाय मनुजर्षभ-च.
  3. सम्बुध्यन्तं पदम् ।
  4. गङ्गाजलवेगामिहत्या किञ्चित्पश्चान्मुखपवाहं प्राप्तां कालिन्दीं नदीम्-गो., ती.
  5. तिलकेऽयं भागः एवमनूदितः–सङ्गमात्पश्चिमप्रदेश एवाश्रित-स्वप्रयुक्तव्यवहारां, संगमपूर्वभागे तु गंगाया एव व्यवहार इति भावः इति कतकः । अन्ये तु पश्चान्मुखया गङ्गया अश्रितां कालिन्दीमनुगच्छेतां इत्यर्थः । अत एवाग्रे कालिन्दीमासाद्येत्युक्तिरित्याहुः-ति.
  6. प्रतिस्रोत-स्समागताम्-च.
  7. सुचरितं, प्रचलितं-ङ.
  8. प्रकामं-च.