पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
510
[अयोध्याकाण्डः
यमुनातरणम्

 तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ।
 [१]ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥ ६ ॥
 विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम् ।
 तस्मै सीताऽञ्जलिं कृत्वा प्रयुञ्जीताशिषः शिवाः ॥ ७ ॥

 आशिषः प्रयुञ्जीतेति विधिः । सीताया महावृक्षनत्यादिविधिः अक्षयमहावटवृक्षकल्परामाश्रयसिद्धिप्रयोजनः ॥ ७ ॥

 समासाद्य तु तं वृक्षं वसेद्वाऽतिक्रमेत वा ।
 अतिक्रमेत वेति । सीतेति शेषः ॥ ७१/२ ॥
 क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ।
 पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः ॥ ८ ॥

 ततः-कालिन्दीदक्षिणतीरवर्तिन्यग्रोधादित्यर्थः । यामुनैः-यमुनातीराश्रितैः ॥ ८ ॥

 स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ।
 रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः ॥ ९ ॥
 मार्दवयुक्त इति । वालुकोपेतमार्ग इत्यर्थः ॥ ९ ॥
 इति पन्थान[२]मावेद्य महर्षिः सन्नयवर्तत ।
 अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ॥ १० ॥

 तथेत्युक्त्वेति । त्वदुपदिष्टमार्गेणैव गमिष्याम इत्युक्त्वेत्यर्थः ॥

 उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ।
 कृतपुण्याः स्म, सौमित्रे ! मुनिर्यन्नोऽनुकम्पते ॥ ११ ॥
 इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ।
 सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम् ॥ १२ ॥


  1. गंगां तीर्त्वा प्रथममागतयोः रामलक्ष्मणयोः गंगाया दक्षिणतीरानुरोधेन प्रस्थाने गंगायमुनासंगमप्राप्तौ ततः प्लवेन यमुनानदीतरणेन यमुनादक्षिणतीरप्राप्तौ तत्र वटवृक्षदर्शनमिति क्रमः । एवञ्च चतुर्थश्लोकव्याख्याने गोविन्दराजोक्तमेव समञ्जसमिति प्रतिभाति ।
  2. मादिश्य-च.