पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५ सर्गः]
511
संप्राप्य यमुनां ते तु प्लवेन प्रातरन्नदीम्

 अथासाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम् ।
 चिन्तामापेदिरे [१]सर्वे नदीजलतितीर्षवः ॥ १३ ॥
 तौ [२]काष्ठ[३]सङ्घाटमथो चक्रतुस्सुमहाप्लवम् ।
 शुष्कैः वंशैस्समास्तीर्णं उशीरैश्च समावृतम् ॥ १४ ॥

 सङ्घाटः-सङ्घः । प्लवः-उडुपः-xxxx ॥ १४ ॥

 ततो वेतसशाखाश्च जम्बुशाखाश्च वीर्यवान् ।
 चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ॥ १५ ॥

 उशीरं-xxxx। वेतसं-xxxxx ॥ १५ ॥

 तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् ।
 ईषत्संलजमानां तां अध्यारोपयत प्लवम् ॥ १६ ॥
 पार्श्वे च तत्र वैदेह्याः वसने भूषणानि च ।
 प्लवे [४]कठिनकाजं च रामश्चक्रे [५]सहायुधैः ॥ १७ ॥

 कठिनश्चासौ काजश्च कठिनकाजः-xxxxxxx ।इदमुपलक्षणं वासःपरशुदातृकाजानां 'द्वंद्वानामेकैकमादाय' इत्युपदिष्टवानप्रस्थपरिकरान्तराणाम् ॥ १७ ॥

 आरोप्य प्रथमं सीतां संघाटं परिगृह्य तौ ।
 ततः प्रतेरतुर्यतौ [६]वीरौ दशरथात्मजौ ॥ १८ ॥

 संघाटं-प्लवम् ॥ १८ ॥

 कालिन्दीमध्यमायाता सीता त्वेनामवन्दत ।
 स्वस्ति, देवि ! तरामि त्वां [७]पारयेन्मे [८]पतिव्रतम् ॥ १९ ॥

 पतिविषयक व्रतं-पतिव्रतम् । पारयेत्-समापयेत्-प्रार्थने लिङ् ॥


  1. सद्यः-च.
  2. काष्ठसङ्घोतरूपं महाप्लवमित्यर्थः ।
  3. सड़घात-ङ.
  4. कठिनकं-कन्दमूलखननसाधनं आयसाग्रं दारु । आज-अजचर्मपिनद्ध पिटक-गो. कठिनं-खनित्रं, काजं- पेटकं-ति.
  5. समाहितः-च.
  6. प्रीतौ-च.
  7. तारयेन्मे-ङ.
  8. पतिव्रतम्-सर्वत्र.