पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
512
[अयोध्याकाण्डः
यमुनातरणम्

 यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च ।
 स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ॥ २० ॥
 कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः ।
 तीरमेवाभिसंप्राप्ता दक्षिणं [१]वरवर्णिनी ॥ २१ ॥
 ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् ।
 तीरजैर्बहुभिर्वृक्षैः संतेरुर्यपुनां नदीम् ॥ २२ ॥

 अंशुमतीमिति पदं, सूर्यपुत्रीमिति यावत् । वृक्षैरिति । उपलक्षितामिति शेषः ॥ २२ ॥

 ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ।
 श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् ॥ २३ ॥
 न्यग्रोधं तमुपागम्य वैदेही [२]वाक्यमब्रवीत् ।
 नमस्तेऽस्तु, महावृक्ष ! पारयेन्मे पतिव्रतम् ॥ २४ ॥
 कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् ।
 इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम् ॥ २५ ॥

 पर्यगच्छत्-परितोऽगच्छत्-प्रदक्षिणं चकारेति यावत् ॥ २५ ॥

 अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ।
 दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् ॥ २६ ॥

 आयाचन्तीं-प्रार्थयमानाम् ॥ २६ ॥

 सीतामादाय गच्छ त्वं अग्रतः, [३]भरतानुज !
 पृष्ठतोऽहं गमिष्यामि सायुधः, द्विपदां वर ! ॥ २७ ॥
 यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा ।
 [४]तत्तत् प्रयच्छ वैदेह्याः यत्रास्या रमते मनः २८ ।।


  1. जनकात्मजा-ङ.
  2. चाभ्यवन्दत-च.
  3. भरताग्रज-ङ.
  4. एतदनन्तरं-'गच्छ-तोस्तु तयोर्मध्ये बभूव जनकात्मजा मातङ्गयोर्मध्यगता शुभा नागवधूरिव ।' इत्यधिकम्-ङ.