पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५ सर्गः]
513
तद्रात्रिं यमुनातीरवने ते न्यवसंस्त्रयः

 एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् ।
 अदृष्ट[१]पूर्वां पश्यन्ती रामं पप्रच्छ सावला ॥ २९ ॥

 पप्रच्छेति । कोऽसौ, किन्नाम-इत्येवमात्मनोति शेषः ॥ २९ ॥

 रमणीयान् बहुविधान् पादपान् कुसुमो [२]त्कटान् ।
 सीतावचन[३] संरब्धोऽप्यानयामास लक्ष्मणः ॥ ३० ॥

 सीतावचनेन संरब्धः-भावे निष्ठा-संरंभः त्वरा यस्य स तथा । लक्ष्मणोऽप्यानयामासेति योजना ॥ ३० ॥

 विचित्रवालुकजलां हंससारसनादिताम् ।
 रेमे जनकराजस्य सुता प्रेक्ष्य तदा नदीम् ॥ ३१ ॥

 नदीं-यमुनाम् ॥ ३१ ॥

 क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ
 बहून् मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ॥ ३२ ॥

 चेरतुः-चरगतिमक्षणयोः-अभ्यवहृतवन्ताविति यावत् ॥ ३२ ॥

 विहृत्य ते बर्हिणपूगनादिते
  शुभे वने वानरवारणायुते ।
 समं नदीवप्रमुपेत्य सम्मतं
  निवासमाजग्मुरदीनदर्शनाः ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः


 समं-अनिम्नोन्नतम् । वप्रं-तीरम् । गर्ग (३३) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः



  1. रूपां-च.
  2. त्करान्-च.
  3. संरब्ध आन-सर्वत्र.