षट्पञ्चाशः सर्गः
[चित्रकूटनिवासः]
अथ रात्र्यां व्यतीतायां अवसुप्तमनन्तरम् ।
प्रबोधयामास शनैः लक्ष्मणं रघुनन्दनः ॥ १ ॥
अथ रामस्य चित्रकूटं प्राप्य तत्र स्थिरवासोचितव्यापारपूर्वं वासः । अथ रात्र्यामित्यादि ॥ १ ॥
सौमित्रे ! शृणु वन्यानां वल्गु व्याहरतां स्वनम् ।
संप्रतिष्ठामहे कालः प्रस्थानस्य, परंतप ! ॥ २ ॥
प्रसुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।
जहाौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् ॥ ३ ॥
तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् ।
पन्थान[१]मृषिणाऽऽदिष्टं चित्रकूटस्य तं ययुः ॥ ४ ॥
नद्याः–कालिन्द्याः ॥ ४ ॥
ततः संप्रस्थितः काले रामः सौमित्रिणा सह ।
सीतां कमलपत्राक्ष इदं वचनमब्रवीत् ॥ ५ ॥
आदीप्तानिव वैदेहि ! सर्वतः पुष्पितान् [२]नगान् ।
स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥ ६॥
स्वैः पुष्पैर्मालिन इव-मालावन्त इव स्थितान् ॥ ६ ॥