पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४ सर्गः]
501
ते तु प्रातस्समुत्थाय भरद्वाजाश्रमं ययुः

 [१]यत्र भागीरथीं गङ्गां यमुनाऽभिप्रवर्तते
 जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥ २ ॥

 गङ्गामभि यमुना प्रवर्तत इति योजना तं देशमिति । प्रयागदेशमित्यर्थः ॥ २ ॥

 ते भूमिभागान् विविधान् देशांश्चापि मनोरमान् ।
 अदृष्टपूर्वान् पश्यन्तः तत्र तत्र यशखिनः ॥ ३ ॥

 [२]यथा [३]क्षेमेण [४]गच्छन्तः संपश्यन् विविधान् द्रुमान् भूमिभागाः-भूमिप्रदेशाः । यथा-यथासुखं, जनानुयानशङ्काभावात् उपविश्योत्थाय च शनैः स्वेच्छानुरोधेन क्षमेण-प्रकृत्यादिभ्यः, इति तृतीया, निर्दुःख गच्छन्तस्ते संपश्यन्-समपश्यन्निति यावत् ॥ ३ ॥

 [५]निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् ॥ ४ ॥
 प्रयागमभितः पश्य, सौमित्रे ! धूममुन्नतम् ।
 अग्नेर्भगवतः क्रेतुं मन्ये सन्निहितो मुनिः ॥ ५ ॥

 निवृत्तमात्र इति । अर्धमण्डलकालमात्र इत्यर्थः । भगवतः अग्नेः क्रेतुं-धूमं पश्य । यदेवं अतः-अत्र मुनिस्सन्निहित इति मन्ये ॥ ५ ॥

 नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर्वयम् ।
 तथा हि श्रूयते शब्दः [६]वारिणो वारिघट्टितः ॥ ६ ॥
 दारूणि परिभिन्नानि वनजैरुपजीविभिः ।
 [७]भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ॥ ७ ॥


  1. यत्र भागीरथीं गङ्गा यमुनामभिवर्तते-ङ.
  2. यथाक्षेमेण-क्षेमानतिक्रमेण-क्षेमहेत्ववधानमनतिक्रम्येत्यर्थः-गो.
  3. क्रमेण-ङ.
  4. संपश्यन् पुष्पितान् विविधान् द्रुमान्-च.
  5. निर्वृत्त-च.
  6. बारिणोवांरिवर्षजः-ङ., वारिणोर्वारिक घर्षजः-च
  7. छिन्नाश्चाप्याश्रमे-च.