पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
500
[अयोध्याकाण्डः
भरद्वाजदर्शनम्

 स लक्ष्मणस्योत्तमपुष्कलं वचः
  निशम्य [१]चैवं [२]वनवासमादरात् ।
 समाः समस्ता विदधे परंतपः
  प्रपद्य धर्मं सुचिराय राघवः ॥ ३४ ॥

 अथ स रामो लक्ष्मणस्य वनवासं प्रत्यादरादुच्यमानं-न मे कुत्राप्युत्कण्ठा नापि त्वद्वियोगः क्षणमपि सुसहः'- इत्येवमादरा-दुध्यमानं, अत एव उत्तमं पुष्कलं-'श्रेयान् श्रेष्ठः पुष्कलः स्यात्, अत्यन्तश्रेष्ठं वचो निशम्य, स्वयं सुचिराय धर्मं-वनवासधर्मं प्रपद्य-स्वीकृत्य लक्ष्मणस्य च ताः समस्ताः समाः प्रति अनुमतिं विदधे वनवासाय ॥ ३४ ॥

 ततस्तु तसिन् विजने महावने
  महावलौ राघववंशवर्धनौ ।
 न तौ भयं संभ्रममभ्युपेयतुः
  यथैव सिह्मौ गिरिसानुगोचरौ ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे । त्रिपञ्चाशः सर्गः


 भयं तत्प्रयुक्तं संभ्रमं-इतस्ततोऽन्वीक्षादिकम् । माला (३५) मानः सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रिपञ्चशः सर्गः


चतुःपञ्चाशः सर्गः

[भरद्वाजदर्शनम्]

 ते तु तस्मिन् महावृक्षे उषित्वा रजनीं शिवाम् ।
 विमलेऽस्युदिते सूर्ये तस्माद्देशात् प्रतस्थिरे ॥ १ ॥

 अथ गङ्गाया दशाश्वमेधस्थलाददूरे उत्तीर्णगङ्गस्य गङ्गातीरमार्गेण प्रयागं प्राप्तस्य भरद्वाजाश्रमप्राप्तिः । ते त्वित्यादि ॥ १ ॥


  1. रामो-ङ.
  2. वनवासमित्यत्यन्तसंयोगे द्वितीया-गो