पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६ सर्गः
४९९
दृष्ट्वा धैर्यं लक्ष्मणस्य रामः प्राप परां धृतिम्

 औपयिकमिति । उपधाया ह्रस्वश्च' इति ठक् स्वार्थे, आकारस्य ह्रस्वश्च, उपायः-हितसाधनं न भवतीत्यर्थः । तदेव प्रदर्श्यते-विषादयसीत्यादि ॥ ३० ॥

  [१][२]हि सीता त्वया हीना न चाहमपि, राघव !
 मुहूर्तमपि जीवावः जलान्मत्स्याविवोद्धृतौ ॥ ३१ ॥

 अथ गन्तव्यं त्वया इति यदुक्तं, तत्रोत्तरं लक्ष्मण आह- न हि सीतेत्यादि ॥ ३१ ॥

 न हि तातं न शत्रुघ्नं न सुमित्रां, परंतप !
 द्रष्टुमिच्छेयमद्याहं स्वर्गं वाऽपि त्वया विना ॥ ३२ ॥

 अथ नोत्कण्ठितुमर्हसीत्युक्तस्योत्तरं-न हि तातामित्यादि ॥

 ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम् ।
 न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ ॥ ३३ ॥

 ततः-लक्ष्मणवचनानन्तरम् । तत्र-लक्ष्मणेन शय्यानिर्मितेः पूर्वावष्टव्धवृक्षमूले सुखासीनौ सीतारामौ, न्यग्रोधे-तन्मूलतले सुकृतां-सम्यग्रचिताम् । वत्सला च वत्सलश्च-वत्सलौ, सर्वत्र 'पुमान् स्त्रिया' इत्येकशेषः ॥ ३३ ॥


  1. त्वया हीना सीता च न जीवति, त्वद्विहीनोऽहमपि च न जीवामि अपि जीवाबः-यदि जीवावः जलादुद्धृतौ मत्स्याविव मुहूर्ते स्वल्पकालं जीवावः- गो. अत्र नकारद्वयं तृतीयनकारस्याप्युपलक्षणं, त्वया हीना सीता च त्वया हीनोऽहं च एताबुभावावामपि जलादुद्धृतौ मत्स्याविव मुहूर्तमात्रमपि न जीवाव इति सम्बन्धः-ती. त्वया हीना सीता त्वया हीनोऽहं च जलादुद्धृतौ मत्स्याविव न जीवावः न जीवावः । जीवाव इत्यावृत्या नञ्द्वयान्वयः । जीवनाभावस्य सर्वथा सत्यत्वप्रतिपादनाय द्विरुक्तिः-ति. युक्तं च तिलकोक्तम्, अध्याहारविपरिणामादिक्केशाभावात, अर्थरवारस्याच्च । यद्वा 'न क्रोधो न च मात्सर्ये न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥' इत्यादाविव निर्वाहः रवरसः । समनन्तर- श्लोकोऽप्यश्रावधेयः ।
  2. च-ङ., च.