पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
498
[अयोध्याकाण्डः
रामसन्तापः

 अधर्मभयभीतश्च परलोकस्य चानघ !
 तेन, लक्ष्मण ! नाद्याहं आत्मानमभिषेचये ॥ २६ ॥

 यदेवं अतः-अधर्मेति । अधर्मात् भयम्, कैकेय्यै पितृदत्तवरपालन- प्रतिज्ञाक्षतिरूपाधर्मात् भीत इत्यर्थः । परलोकस्य चेति । नाशात् भीत इति शेषः ॥ २६ ॥

 एतदन्यच्च करुणं विलप्य [१] विजने [२]वने ।
 अश्रुपूर्णमुखो [३]रामः निशि तूष्णीमुपाविशत् ॥ २७ ॥

 विजन इत्यनेन स्वविलापे लोकदुःखप्रसङ्गपरिहारनिर्बन्धाभावः आवेदितः ॥ २७ ॥

 [४]विलप्योपरतं रामं गतार्चिपभिवानलम् ।
 समुद्रमिव निर्वेगं आश्वासयत लक्ष्मणः ॥ २८ ॥

 अश्वासयत-आश्वासयादेति यावत् ॥ २८ ॥

 ध्रुवमद्य पुरी, राजन् ! [५]अयोध्याऽऽयुधिनां वर !
 निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी ॥ २९ ॥

 आयुधिनां इति पदम् ॥ २९ ॥

 [६]नैतदौपयिकं, राम ! यदिदं परितप्यते ।
 विषादयसि सीतां च मां चैव, पुरुषर्षभ ! ॥ ३० ॥


  1. बहुजनमध्ये मनसोऽनवधानतया न केशाधिक्यप्रतीतिः, विजने तु देशे अवीव क्लेशोन्मेष इत्यनुभवात् विजन इत्युक्तम् । स्वानुरक्तजनदुःखासहिष्णु वादश्रुपूर्णमुखत्वं, न तु वस्तुतः । 'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' इत्युक्तेः-ती. अश्रुपूर्णमुखात्वं नटवलोकव्यवहारानुसारेणेति बोध्यम्-ति. एतव्याख्यात्रा-वक्तर्वं दशमश्लोकव्याख्यान एवोक्तम् ।
  2. बहु-च.
  3. दीनः-च.
  4. विलापोपरतं-च.
  5. राम अयोध्या-च.
  6. 'युक्तमौपयिकं' इत्यमरः । न युक्तमित्यर्थः ।