पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६ सर्गः
497
तं यथार्हवचोभिस्तु सान्त्वयामास लक्ष्मणः

 मन्ये प्रीतिविशिष्टा सा मत्तः, लक्ष्मण ! शारिका ।
 यस्यास्तच्छ्रूयते वाक्यं, शुक ! पादमरेर्दश ॥ २२ ॥

 सर्वथा मज्जननेन अम्बाया न प्रयोजनमित्याह-मन्य इत्यादि । हे लक्ष्मण ! अम्बया शिक्षिता-वर्धिता-कृतवचश्शिक्षा च या शारिका अस्ति, सा तु वृथा वर्धितात् मत्तः प्रीतिविशिष्टा-अम्बायाः प्रीति-जननविषये विशिष्टा-विशेषसाधनभूतेति मन्ये । कथम् ? यत्-यस्मात् तस्याश्शारिकायाः सकाशात् शुकं प्रति तथोच्यमान् ‘अरेः पादं-अस्मन्मातुः कौसल्यायाः शत्रोः पादं दश-देशन कुरु' इति शत्रुनिग्रहविषयकं वाक्यमपि वा श्रूयते । मत्तः शत्रुनिग्रहप्रसङ्गवाचोऽपि न प्राप्नोति । तत्-तस्मादेव ॥ २२ ॥

 शोचन्त्याश्चाल्पभाग्याया न किश्चिदुपकुर्वता ।
 पुत्रेण किमपुत्राया मया कार्यमरिंदम ॥ २३ ॥

 [१]अपुत्राया इति। असन्निहितपुत्राया इत्यर्थः ॥ २३ ॥

 अल्पभाग्या हि मे माता कौसल्या रहिता मया ।
 शेते परमदुःखार्ता पतिता शोकसागरे ॥ २४ ॥
 एको ह्यहमयोध्यां च पृथिवीं चापि, लक्ष्मण !
 तरेयमिषुभिः क्रुद्धः ननु वीर्यमकारणम् ॥ २५ ॥

 नन्वसन्निहितपुत्रकता मातुः किमिति कार्या ? भ्रात्रा मया सहितेनाभिषिच्यात्मानं अयोध्यामवस्थातुं सुशक्यत्वादित्यत्र, तथाऽवस्थित्यङ्गीकारे त्वदपेक्षापि मे नास्ति । तत् धर्मलोपभयादशक्याङ्गीकारमित्याह--एक इत्यादि । इषुभिस्तरेयमिति । निरस्तारातिकां कर्तुं शक्नु इत्यर्थः । वीर्यमकारणमिति । परलोकहिते, अपि तु धर्म, एवेति शेषः ॥ २५ ॥


  1. पुत्रकृतप्रयोजन रहितरवाद्वा अनुभाया इति निर्देशः