पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
496
[अयोध्याकाण्डः
रामसन्तापः

 अहमेको गमिष्यामि सीतया सह दण्डकान् ।
 अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि ॥ १७ ॥

 नाथ इति । रक्षक इति यावत् ॥ १७ ॥

 क्षुद्र[१]कर्मा हि कैकेयी [२]द्वेष्यमन्याय्यमाचरेत् ।
 [३][४] परिदद्याद्धि [५]धर्मज्ञ ! गरं ते मम मातरम् ॥ १८ ॥

 क्षुद्रकर्मेति । 'डाबुभाभ्यां...' इति डाप् । किमन्याय्यमाचरेदित्यतः परिदद्यादित्यादि । गरं-विषम् । ते-तव मातरं मम मातरं चोद्दिश्येति शेषः ॥ १८ ॥

 नूनं जात्यन्तरे[६] कस्मिन् स्त्रियः पुत्रैर्वियोजिताः ।
 जनन्या मम, सौमित्रे ! [७]तदप्येतदुपस्थितम् ॥ १९ ॥

 कस्मिंश्चित् जात्यन्तरे-जन्मान्तरे स्त्रियः-मातरः पुत्रैः तत्तत्पुत्रै-र्वियोजिता नूनम् । मम जनन्येत्याकर्षः। तदप्येतदिति । पापमिति यावत् ॥ १९ ॥

 मया हि चिरपुष्टेन दुःखसंवर्धितेन च ।
 विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम् ॥ २० ॥

 फलकाले-सुखानुभवार्हकाले ॥ २० ॥

 मा स्म सीमन्तिनी काचित् जनयेत् पुत्रमीदृशम् ।
 सौमित्रे ! योऽहमम्बाया दद्मि शोकमनन्तकम् ॥ २१ ॥

 ईदृशमिति । कीदृशमित्यतः-सौमित्रे इत्यादि ॥ २१ ॥


  1. धर्मा-ङ.
  2. द्वेष्यादन्या-च.
  3. परिदयाः-परिदानं नाम रक्ष्यतया प्रदानम्-गो. एतद्रीत्या धर्मज्ञे भरते इति पाठः ।
  4. परिदह्य हि-ङ.
  5. धर्मज्ञे भरते-च. ङ.
  6. तात-ङ.
  7. तस्मादेत-ङ.