पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३ संर्गः]
495
मातरं च स्मरन् रामः मुमोचाश्रूणि दुःखितः

 सुखी बत सभार्यश्च भरतः केकयीसुतः ।
 मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत् ॥ ११ ॥
 स हि सर्वस्य राज्यस्य [१][२]सुखमेकं भविष्यति ।
 ताते च वयसाऽतीते मयि चारण्यमाश्रिते ॥ १२ ॥

 एकं मुख्यं सुखम्-अनुभवितेति शेषः ॥ १२ ॥

 [३]अर्थधर्मौ परित्यज्य यः काममनुवर्तते ।
 एवमापद्यते [४]क्षिप्रं राजा दशरथो यथा ॥ १३ ॥

 यथा दशरथो राजा-तथा क्षिप्रं अराजत्वमापद्यते-प्राप्नोति ॥ १३ ॥

 मन्ये दशरथान्ताय मम प्रव्राजनाय च ।
 कैकेयी, सौम्य ![५]संप्राप्ता राज्याय भरतस्य च ॥ १४ ॥
 अपीदानीं न कैकेयी सौभाग्यमदमोहिता ।
 कौसल्यां च सुमित्रां च संप्रवाधेत मत्कृते ॥ १५ ॥

 मत्कृत इति । मद्दुःखसम्पादननिमित्तमित्यर्थः ॥ १५ ॥

 [६]माताऽस्मत्कारणाद्देवी सुमित्रा दुःख[७]मावसेत् ।
 अयोध्यामित एव त्वं [८]काले प्रविश, लक्ष्मण ! ॥ १६ ॥

 माता-त्वन्माता । काले-प्रातःकाल इत्यर्थः ॥ १६ ॥


  1. मुखमेकमिति-गो. पाठः अद्वितीयं प्रधानमित्यर्थः इति च व्याख्यातम् । सुखमेक इति तीर्थपाठः । सुखे अनायासेन एको राजा भविष्यतीति तदानीमर्थः ।
  2. सुखमेको, मुखमेकं–ङ.
  3. यः-भरतः काममनुवर्तते सः-यथा राजा दशरथो विपदमापन्नः एवं विपदमापद्यते-प्राप्नोतीत्यर्थः । अन्ये तु राजा दशरथो यथा राजत्वमापन्नः तथा भरतो राजत्वमापद्यत इत्यर्धं इत्याहुः-ति.
  4. लोकः-ङ.
  5. संतप्ता-ङ.
  6. मास्म मत्कारणात्-ङ.
  7. माविशेत्-ङ.
  8. काल्ये-ङ.