[१]सा हि देवी महाराजं कैकेयी राज्यकारणात् ।
अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतमागतम् ॥ ७ ॥
राज्यकारणादिति । महाराज्यपदाभिषेककारणादित्यर्थः ॥ ७ ॥
अनाथश्चैव वृद्धश्च मया चैव विनाकृतः ।
किं करिष्यति कामात्मा कैकेयीवशमागतः ॥ ८ ॥
इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् ।
काम एवार्थधर्माभ्यां गरीयानिति मे मतिः ॥ ९ ॥
को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत् ।
छन्दानुवर्तिनं पुत्रं तातो मामिव, लक्ष्मण ! ॥ १० ॥
काम एव गरीयानित्ययमर्थः प्रसाध्यते-को ह्यविद्वानपीत्यादि । अत्यज्ञोऽपि कः पुमान् पिता, मम तात इव छन्दानुवर्तिनं पुत्रं प्रमदायाः कृते-प्रमदामेव निमित्तं प्राप्य त्यजेत् । इदमत्यन्तानुचितम् । सर्वज्ञोऽपि सार्वभौमोऽपि वृद्धोऽपि कामात् कृतवानिति यत् अतो धर्मार्थाभ्यां प्रबलः काम इति मन्य इत्यर्थः । कथमेवं वादः सत्यपाशबन्धात् मद्वनवासानुमतिः प्राणाधिकप्रेम्णोऽपि इति जानतोऽपि रामस्य ? उच्यते–'अयोध्यामित एव त्वं काले प्रविश लक्ष्मण' इति वदिष्यन् तन्मतमवलम्ब्य तत्प्रीतये एवं वदति[२] । वास्तवस्त्वाशयोऽग्रे वक्ष्यते-- एको ह्यहमित्यादिना ॥ १० ॥
- ↑ इदानीं भरतयौवराज्याय कुमार्गे प्रवृत्ता कैकेयी, भरतस्य परोक्ष एव एवं करोति चेत्, भरतागमनानन्तरं तद्दर्शनेनोत्तम्भिताशा सती यौवराज्यापेक्षया राज्याधिकारमेव कामयन्ती, तत्प्रतिबन्धकतया स्थितं दशरथं न मारयेद्वा-मारयेदेवेति भावः । एवमादिकं 'अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण' इति वक्ष्यमाणलक्ष्मणप्रतिनिवृत्युपदेशाय लक्ष्मणाभिप्रायानुगुणमुच्यत इति गोविदन्राजः.
- ↑ अत एव 'न च सीता त्वया हीना न चाहमपि' इत्युत्तरत्र लक्ष्मणवाक्यमपि युज्यते ।