पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३ सर्गः]
493
पितरं दुर्गतं स्मृत्वाऽशोचद्रामस्तदा भृशम्

 [१]याता, आ, जनपदादिति पदम् । अस्मज्जनपदाद्बहिर्देशे अद्य येयं रात्रिरायाता केवलवनवासरात्रिषु प्रथमा, या चेयं सुमन्त्रेण च रहिता, तामिमां प्राप्य नोत्कण्ठितुं-शोकस्मरणं कर्तुं नार्हसि ॥ २ ॥

 जागर्तव्य[२]मतन्द्रिभ्यां अद्यप्रभृतिषु रात्रिषु ।
 योगक्षेमं हि सीताया वर्तते लक्ष्मणावयोः ॥ ३ ॥

 न विद्यते तन्द्री ययोस्तौ अतन्द्री ताभ्याम् । आवयोवर्तत इति । अस्मदायत्तमित्यर्थः ॥ ३ ॥

 रात्रिं कथञ्चिदेवेमां, सौमित्रे ! वर्तयामहे ।
 उपावर्तामहे भूमौ आस्तीर्य स्वयमार्जितैः ॥ ४ ॥

 कथञ्चिदेवेमामिति । उटजादिनिर्माणाभावात् केवल[३]वनस्थले शयितव्यत्वादित्याशयः । स्वयमार्जितैरिति । णपर्णादिभिरिति शेषः ॥

 स तु संविश्य मेदिन्यां महार्हशयनोचितः ।
 इमां सौमित्रये रामः व्याजहार कथां शुभाम् ॥ ५ ॥

 कथामिति । वार्तामिति यावत् ॥ ५ ॥

 ध्रुवमद्य महाराजः दुःखं स्वपिति, लक्ष्मण !
 कृतकामा तु कैकेयी तुष्टा भवितुमर्हति ॥ ६ ॥


  1. याता-आ-इत्यनयोर्विपरिणामेन आयाता इत्यन्वयः । जनपदाद्बहिरागतस्य रामस्य प्रथमा खल्वियं रात्रिः । अतः सा यातेति कथनमसंगतं स्यादिति भावेन एवं व्याख्यातम् । गोविन्दराजस्तु याता-प्राप्ता इति व्याचख्यौ ।
  2. मतन्द्राभ्यां-ङ.
  3. नभस्थले-ग.