पुटमेतत् सुपुष्टितम्
502
[अयोध्याकाण्डः
भरद्वाजदर्शनम्
गङ्गायमुनयोस्सन्धाविति । अन्तर्वेदिप्रदेश इत्यर्थः । निलयं-आवासम् । प्राप्तुं-'तुमुन् प्वुरौ क्रियायां क्रियार्थायां' इति तुमुन् ; प्राप्स्यन्, तद्धेतोर्मुनेराश्रममासाद्य-तत्समीपवनप्रदेशमासाद्येत्यर्थः । त्रासयन्निति । धनुष्मत्वादिस्वरूपमात्रेण केवलं त्रासहेतुस्सन् । भरद्वाजं-भरद्वाजाश्रममित्यर्थः ॥ ९ ॥
ततस्त्वाश्रममासाद्य मुनेदर्शनकाङ्क्षिणौ ।
सीतयाऽनुगतौ वीरौ [३]दूरादेवावतस्थतुः ॥ १० ॥
दूरादेवावतस्थतुः-अनुमत्यर्थमिति भावः ॥ १० ॥
संप्रविश्येति । कार्यवशनिर्गतशिष्यद्वारा विज्ञाप्यानुज्ञाताविति शेषः । तपसा लब्धचक्षुषमिति । त्रैकालिकसर्वजगद्वृतान्ताभिज्ञामित्यर्थः ॥
दृष्ट्व-ज्ञात्वैव अवसरं विज्ञायेत्यर्थः ॥ १२ ॥
- ↑ मध्ये-ङ.
- ↑ सर्वत्र एवमेव पाठो दृश्यते-परन्तु एतद्व्याख्यानुसारेण प्राप्तुरीति स्थाने 'प्राप्तुं तु' इति पाठः स्यादिति भाति । श्लोवद्वयमेकान्वयं चेति ।
- ↑ सायंतनसमयात्वात् अग्निहोत्रा-वसानं प्रतीक्षमाणाववतस्थतुः इत्यर्थः-गो. विज्ञापनपूर्वकानुमतिलाभार्थमिति भावः-ति.
- ↑ स प्रविश्य-ङ., च.
- ↑ संशितव्रतं-तीक्ष्णव्रतं-ति, गो.
- ↑ दृष्दैव-दर्शनोत्तरकलमेवेत्यर्थः-गो.
- ↑ महाभागः-च