पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५ सर्गः]
431
एवं पौरेर्वृतो रामः तमसातीरमाययौ

त्वन्निवृत्त्यभावे निवर्तते-समाप्तिर्न भविष्यति मध्ये विघ्नो भवति, अतो निवर्तस्वेत्यर्थः ॥ २८ ॥

 [१]भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च ।
 [२]याचमानेषु, [३]राम ! त्वं भक्ति भक्तेषु दर्शय ॥ २९ ॥

 न केवलमस्मत्प्रार्थना ; अपि तु सर्वभूतप्रार्थनापीत्याहुः-भक्ति-मन्तीत्यादि । जङ्गमाजङ्गमानि सर्वाण्यपि भूतानि भक्तिमन्ति । भक्तिः-स्नेहः । तथा सर्वेषां स्नेहकारणं प्रागेवोक्तम् । त्वन्निवृत्तिं याचमानेषु भक्तेषु त्वमपि भक्तिं-स्नेहं प्रदर्शय, निवृत्त्येति शेषः ॥ २९ ॥

 [४]अनुगन्तुमशक्तास्त्वां मूलै[५]रुन्नतवेगिनः ।
 उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ॥ ३० ॥

 मूलैः-अवाक्शिरोभिः, स्थावरत्वादनुगन्तुमशक्ताः-सेवितुमशक्ताः वायुवेगेनोपाधिना उन्नतवेगिनः उन्नताः-उच्छ्रिताः पादपाः विक्रोशन्तीव-वायुवेगजशाखाचलनशब्दैरिति शेषः ॥ ३० ॥

 निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः ।
 पक्षिणोऽपि प्रयाचन्ते सर्वभूतानु[६]कम्पिनम् ॥ ३१ ॥

 निर्गताः चेष्टादयो येषां ते तथा । वृक्षरूपे एकस्मिन्नेव स्थाने विष्ठिताः । न तु भुवमवरोहन्ति आहारायापीत्यर्थः । प्रयाचन्त इति । निवृत्तिमिति शेषः ॥ ३१ ॥


  1. भक्तिमन्तीह-ङ., च.
  2. त्वं भक्तेषु विद्यमानां भक्तिं दर्शय-सफलयेत्यर्थः-गो.
  3. तेषु त्वं च., भूतेषु-ङ.
  4. मूलैः पादस्थानीयैः त्वामनुगन्तुमशक्ताः उन्नताः ऊर्ध्वबाहव इव स्थिताः-गो.
  5. उद्धत-ङ.
  6. कम्पनम् च.