पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
430
[अयोध्याकाण्डः
पौरयाचनम्

 एवं त्वत्कृते-त्वदनुयाननिमित्तं मतिः सुकृता-सुष्ठु निश्चिता, न पुनरतः परमस्माभिर्निश्चयः कार्यः । अथाप्यस्माकं सर्वेषां सुखार्थं निवर्तस्वेति प्रार्थयन्ते–त्वयीत्यादि । धर्मव्यपेक्षे-धर्मे नित्यापेक्षासहिते त्वयि इदानीं धर्ममपेक्षितुं नः-अस्माकं चापेक्षितुं मतिः स्यात् किम् ? अस्ति किम् ? ॥ २६ ॥

 [१]याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः ।
 [२]शिरोभिः, निभृताचार ! महीपतनपांसुलैः ॥ २७ ॥

 तदस्माभिः हंसशुक्लशिरोरुहैः-पलितकेशैः नः शिरोभिः साष्टाङ्ग-नमस्काराय महीपतनपांसुलैः देहैश्च याचितः निवर्तस्व । निभृताचारः-निश्चलधर्मानुष्ठानः । ननु कथं ब्राह्मणैः क्षत्रियस्य रामस्य नमस्कारः?-इदानीमस्माभिर्वा कथं नमस्कारः ? रामायणश्रवणतो रामे कुलदैवत-बुद्ध्या क्षत्रियमातृत्वबुद्धेर्निवृत्तत्वादिति चेत्-तर्ह्यपरोक्षानुभूयमान-ब्रह्मस्वभावसर्वप्रियत्वानवधिककल्याणगुणैकतानत्वलोकनाथभगवद्ब्रह्मैकसाध्यपुण्यलोकदानादिव्यापारैः अपरोक्षानुभूतप्राजापत्योपनीतब्रह्मतेजो- मूलपरिगृहीतलीलाविग्रहत्वतः स्ववगमब्रह्मत्वादेव ॥ २७ ॥

 बहूनां वितता यज्ञा द्विजानां य इहागताः ।
 [३]तेषां समाप्तिरायत्ता तव, वत्स ! [४] निवर्तते ॥ २८ ॥

 बहूनामित्यादि । ये द्विजा इहागताः तेषां बहूनां बहवो यज्ञा इह काले वितताः-प्रवृत्ताः ; तेषां समाप्तिः तवायत्ता-त्वदधीना । सा तु


  1. याचितस्सन्निवर्तस्व-ङ.
  2. वृद्धब्राह्मणानां क्षत्रियकुमारप्रणामः परत्वबुद्ध्या-गो. भगवदवतारस्वदृष्ट्या
    नमस्कारेणादोषात् । यद्वा राज्ञो विष्ण्वंशत्वेन नतौ न दोष इत्याहुः-ति.
  3. तवानिवर्तने त्वयैव सर्वे यज्ञा विघ्निताः स्युरिति भावः ।
  4. निवर्तने सर्वत्र