पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५ सर्गः]
429
रामस्तु तान् पुरं गन्तुं अवदत् स्निग्धया गिरा

 अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते ।
 एभिः छायां करिष्यामः [१]स्वच्छत्रैर्वाजपेयिकैः ॥ २३ ॥

 अनवाप्तातपत्रस्येति । अप्राप्तश्वेतच्छत्रस्येत्यर्थः । वाजपेययागप्राप्तानि-वाजपेयिकानि ॥ २३ ॥

 या हि नः सततं बुद्धिः वेदमन्त्रानुसारिणी ।
 त्वत्कृता सा कृता, वत्स ! वनवासानुसारिणी ॥ २४ ॥

 वेदमन्त्रानुसारिणी-तदभ्यासानुसरणशीला । त्वत्कृते मन्त्राभ्यासादि परित्यज्य वनवासोन्मुखीकृतेत्यर्थः ॥ २४ ॥

 [२][३]हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम् ।
 [४]वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥ २५ ॥

 स्वेषां वनवासे अनुपपत्त्यभाव इत्याहुः-हृदयेष्वित्यादि । नः अस्माकं परं धनं ये वेदाः अस्माकं हृदय एवावतिष्ठन्ते-अनुसन्धीयमाना वर्तन्ते, चारित्रं-पातिव्रत्यं, तद्रक्षिता दाराश्च ॥ २५ ॥

 न पुनर्निश्चयः कार्यः [५]त्वत्कृते सुकृता मतिः ।
 त्वयि धर्मव्यपेक्षे तु किं [६]स्याद्धर्ममपेक्षितुम् ॥ २६ ॥


  1. स्वैः छत्रैः-ङ., च.
  2. ज्ञानस्यैव मुख्यवेदत्वात्तयोक्तिः । दाराः तत्पातिब्रत्यरक्षिता वत्स्यन्ति, एवञ्चास्माकं वनगमने न कश्चन प्रतिरोध इति भावः त्वद्गतौ-त्वन्निवर्तनरूपगतौ मतिः सुकृता सुष्ठु कृता । निश्चयः-वनवासनिश्चयः पुनः न कार्यः, त्वयेति शेषः, त्वयि धर्मसापेक्षे अस्माभिरपि धर्मः अपेक्षणीयः किम् ? अथवा धार्मिके त्वय्यपि ब्राह्मणप्रार्थनारूपधर्मनिरपेक्षे किमन्यं धर्ममपेक्षितुं युक्तम्-इत्यर्थः ।
  3. हृदयेष्वेव तिष्ठन्ति-ङ.
  4. वसन्त्यपि-ङ.
  5. त्वद्गतौ-सर्वत्र
  6. स्याद्धर्मपथे स्थितम्-ङ., च.