पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
428
[अयोध्याकाण्डः
पौरयाचनम्

 पद्भ्यामेव द्विजानामनुसङ्गमार्थं सन्निकृष्टपदन्यासो भूत्वा परायण एव शनैश्शनैर्जगाम, न तु निवृत्तः, नापि स्थित इत्यर्थः ॥ १८ ॥

 द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः ।
 न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ १९ ॥

 रथेन परिमोक्तुमिति । रथवेगावलम्बनेन निवर्तयितुमित्यर्थः ॥

 गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तचेतसः ।
 ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः ॥ २० ॥

 गच्छन्तमेवेति । न स्थितं, न निवृत्तं वेत्यर्थः ॥ २० ॥

 ब्राह्मण्यं [१][२]सर्वमेतत् त्वां ब्रह्मण्यमधिगच्छति ।
 द्विजस्कन्धाधिरूढास्त्वां अग्नयोऽप्यनुयान्त्यमी ॥ २१ ॥

 ब्राह्मण्यं-ब्रह्मसम्बन्धिसकलतन्त्रमन्त्रज्ञानयोगानुष्ठानरूपं अस्मदीयं कर्म, ब्राह्मणादित्वात् कर्मणि ण्यञ् । [३]द्विजस्कन्धाधिरूढा इति । पात्रारणिभरणद्वारेणेति शेषः ॥ २१ ॥

 वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः ।
 पृष्ठतोऽनु[४]प्रयातानि मेघानिव जलात्यये ॥ २२ ॥

 वाजपेयसमुत्थानि नः छत्राणीति । 'तस्माद्वाजपेययाजी न कञ्चन प्रत्यवरोहति' इति श्रुतेः वाजपेययाजिनो राजवच्छत्रादिसम्बन्धात् । जलात्यये मेघानिवेति । शरदि मेघा इव पाण्डुराणीत्यर्थः ॥ २२ ॥


  1. ब्राह्मण्यं ब्राह्मणसमूहः । ब्रह्मसु ब्राह्मणेषु साधुः ब्रह्मण्यः, तम्-गो. ब्राह्मण्यं
    ब्राह्मणसम्बन्धिसकलमंत्रतंत्रज्ञानयोगानुशनरूपमस्मदीयं कर्म-ब्राह्मणसमूहो वा-ती.
  2. कृत्स्नमेतत्-ङ, च.
  3. निजस्क-क.
  4. प्रयातान् हि हंसानिव-ङ.