पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५ सर्गः]
427
प्रीत्या तु रामं ते सर्वे प्रत्यागन्तुं ययाचिरे

 वहन्तो जवना रामं भो भो जात्यास्तुरङ्गमाः !
 निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ॥ १४ ॥

 किमूचुरित्यतः-वहन्त इत्यादि । रथेन प्रापयन्तः जात्याः-उत्तमजातिजाः भर्तरि-रामविषये हिता भवत, वनं न नयतेति यावत् ॥ १४ ॥

 कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः ।
 यूयं तस्मान्निवर्तध्वं याचनां [१]प्रतिवेदिताः ॥ १५ ॥

 एवं क्रोशनेऽपि तेषां वेगगमनदुःखादाहुः-कर्णवन्तीत्यादि । विशेषेण यूयं कर्णवन्त इत्यनुकर्षः । तस्मात् बधिरवन्न गन्तव्यं ; अपि तु याचनामस्मदीयां प्रतिवेदिताः-ज्ञातवन्तो निवर्तध्वम् ॥ १५ ॥

 धर्मतस्स विशुद्धात्मा वीरः शुभदृढव्रतः ।
 उपवाह्यस्तु [२]वो भर्ता नापवाह्यः पुराद्वनम् ॥ १६ ॥

 उपवाह्यः-पुरसमीपं प्राप्यः । न तु पुरात् दूरमपवाह्यः-अपनीय प्रापणीयः ॥ १६ ॥

 एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान् ।
 अवेक्ष्य सहसा रामः रथादवततार [३]ह ॥ १७ ॥
 [४]पद्भ्यामेव [५]जगामाथ ससीतस्सहलक्ष्मणः ।
 सन्निकृष्टपदन्यासः रामो वनपरायणः ॥ १८ ॥


  1. प्रतिवेदिताः–ज्ञापिताः-गो.
  2. भर्ता नो-ङ.
  3. सः-ङ.
  4. रथेन गमने ब्राह्मणकेशनेन दोषः, प्रतिनिवृत्त्य ब्राह्मणाश्वासने व्रतभङ्गो भवतीति धिया पद्भ्यां मन्दगमनोऽभूत् यावद्वद्धसन्निधानमित्यर्थः-ति.
  5. जनान् सर्वान् उपातिष्ठत् सलक्ष्मणः-ङ.