पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
426
[अयोध्याकाण्डः
पौरयाचनम्

 यथा यथा दाशरथिः [१]धर्ममेवास्थितो भवेत् ।
 तथा तथा प्रकृतयः रामं [२]पतिमकारयन् ॥ ११ ॥

 यथा यथा धर्ममेवास्थितो भवेत्-धर्ममेव परिगृह्णाति पुनःपुन-रुच्यमानोऽपि, तथा तथा भरतयौवराज्यं प्रति उच्यमाना अपि राममेव चित्ते पतिमकारयन्-स्वीकृतवन्तः, चतुर्दशसमानन्तरमपि वा भवानेवास्माकं राजा भवत्विति प्रार्थितवन्त इत्यर्थः ॥ ११ ॥

 बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह ।
 चकर्षेव [३]गुणैर्वद्धं जनं पुरनिवासिनम् ॥ १२ ॥

 एवं बाष्पेण पिहितं-पिहितचक्षुषं गुणैः रज्जुभिरिव स्वगुणैर्बद्धं पुरवासिनं जनं चकर्षेव । [४]तथा च कथञ्चित्तेषां प्रतिनिवृत्तिरभूदित्युक्तं भवति ॥ १२ ॥

 ते द्विजाः त्रिविधं वृद्धा ज्ञानेन वयसौजसा ।
 वयःप्रकम्पशिरसः दूरादूचुरिदं वचः ॥ १३ ॥

 अथ तपस्साधनप्रियब्राह्मणानां रामेण सह वनविवासाय प्रवृत्तिः-ते द्विजा इत्यादि । ते पौराः ब्राह्मणाः । तेषां त्रिप्रकारवृद्धत्वं प्रतिपाद्यते-ज्ञानेनेत्यादि । ओजः-तपोबलम् । वयसा-वयःपरि-पाकेन-वार्धक्येन प्रकम्पं-प्रचलत्-दौर्बल्यादितस्ततो भुग्नं शिरो येषां ते तथा । एवमतिवृद्धत्वादेव आरादनुधावनाशक्त्या दूरादिदमूचुः ॥


  1. धर्म एव स्थितोऽभवत्-ङ.
  2. पतिमकामयन्-ङ,
  3. गुणैर्बध्वा-ङ.
  4. इदं वाक्यं नजुपश्लिष्टं स्यादिति भाति, उत्तरश्लोकेष्वपि पौरानुवर्तनस्य द्योतनात् ॥