पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५ सर्गः]
425
वनं व्रजन्तं तं रामं अन्वगच्छंस्तु नागराः

 या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् ।
 मत्प्रियार्थं विशेषेण भरते सा [१]निवेश्यताम् ॥ ६ ॥

 अयोध्यानिवासिनामिति । युष्माकमिति शेषः ॥ ६ ॥

 स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः ।
 करिष्यति यथावद्वः प्रियाणि च हितानि च ॥ ७ ॥

 प्रियाणि-इहलोकसुखानि । हितानि-परलोकहितानि वर्णाश्रम-व्यवस्थापरिपालनादिलक्षणानि ॥ ७ ॥

 ज्ञानवृद्धो वयोबालः मृदुर्वीर्यगुणान्वितः ।
 अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ ८ ॥

 वयसा बालोऽपि ज्ञानादिना वृद्धः । मृदुरपि वीर्यगुणान्वितः ॥

 स हि राजगुणैर्युक्तो युवराजः समीक्षितः ।
 अपि चापि [२]मया शिष्टैः कार्यं वो भर्तृशासनम् ॥ ९ ॥

 समीक्षितः-निश्चितः। अतश्च स एव युवराज इत्युच्यते । अपि चेत्यादि । अस्मादपि हेतोरित्यर्थः । मया पितृशिष्टेन, युष्माभिरपि भर्त्रनुशिष्टैः । भर्तृशासनं-राजनियोगः ॥ ९ ॥

 [३]न सन्तप्येद्यथा चासौ वनवासं गते मयि ।
 महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ १० ॥

 न सन्तप्येदित्यादि । तथा कार्य इति । अनुकूलाचरणेन सदा समाश्वासनीय इत्यर्थः ॥ १० ॥


  1. विधीयताम्-ङ.
  2. मया शिष्टैः-मत्तोऽधिकैरिति यावत् । ईदृशै राजगुणैर्युक्तः-ति. मया, शिष्टैः-अवशिष्टैश्च-लक्ष्मणशत्रुघ्नादिभिः सर्वैरपि-गो.
  3. न च तप्येत्-ङ.