पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
424
[अयोध्याकाण्डः
पौरयाचनम्

पञ्चचत्वारिंशः सर्गः

[पौरयाचनम्]

 [१] अनुरक्ता महात्मानं रामं सत्यपराक्रमम् ।
 अनुजग्मुः [२]प्रयान्तं तं वनवासाय मानवाः ॥ १ ॥

 एवं निवर्तितमातापितृवृत्तान्ते स्थिते, पुरमुत्सृज्य दूरमनुगच्छत्स्निग्घपौर-निवर्तनं सर्गाभ्याम् । अन्वित्यादि । वनवासाय प्रयान्तमिति योजना ॥ १ ॥

 [३] निवर्तितेऽपि च बलात् [४]सुहृद्वर्गे च राजनि ।
 नैव ते सन्न्यवर्तन्त रामस्यनुगता रथम् ॥ २ ॥

 नैव त इति । ते अनुरक्ताः-परमभक्ता इत्यर्थः ॥ २ ॥

 अयोध्यानिलयानां हि पुरुषाणां महायशाः ।
 बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः ॥ ३ ॥
 स याच्यमानः काकुत्स्थः [५] स्वाभिः प्रकृतिभिस्तदा ।
 कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ ४ ॥

 याच्यमान इति । प्रतिनिवृत्तिमिति शेषः । प्रकृतिभिरिति । परमानुरक्तभक्तप्रजामिरित्यर्थः ॥ ४ ॥

 अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव ।
 उवाच रामः [६]सस्नेहं ताः प्रजाः [७]स्वाः प्रजा इव ॥ ५ ॥


  1. अनुरक्तं-ङ.
  2. प्रयातं-ङ.
  3. सुहृद्वर्गे राजनि दशरथे च बलान्निवर्तितेऽपि ते पौरा नैव सन्नथवर्तन्त इत्यर्थः । तत्र हेतुरुत्तरश्लोकेनोच्यते ॥ सुहृद्धर्मेण 'यमिच्छेत्पुनरायान्तं नैनं दूरमनुब्रजेत्' इत्युक्तिरूपेण-ति.
  4. सुहृद्धर्मेण-च.
  5. ताभिः-च.
  6. स्नेहेन-ङ.
  7. स्वाः प्रजा इव-स्वापत्यानीव-गो., ति. भरताय राज्यस्य दत्तत्वात् स्वस्य राज्यस्य च सम्बन्धाभावेन वा तथोक्तिः । अनन्तरश्लोक इममर्थ द्रढयति ॥