पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४ सर्गः]
423
इत्यादि तद्वचः श्रुत्वा कासल्या निर्वृतिं ययौ

 अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम् ।
 मुदाऽस्त्रैः [१]प्रोक्षसे पुत्रं मेघराजिरिवाचलम् ॥ २९ ॥

 मेघराजिरिति सजलत्वांशे दृष्टान्तः ॥ २९ ॥

 आश्वासयन्ती विविधैश्च वाक्यैः
  वाक्योपचारे कुशलाऽनवद्या ।
 रामस्य तां मातरमेवमुक्त्वा
  देवी सुमित्रा विरराम रामा ॥ ३० ॥

 वाक्योपचारे-वाक्यरचनायां । रामा-स्त्री ॥ ३० ॥

 निशम्य तल्लक्ष्मणमातृवाक्यं
  रामस्य मातुर्नरदेवपत्न्याः ।
 सद्यश्शरीरे विननाश शोकः
  शरद्गतो मेघ इवाल्पतोयः ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः


 योगौ (३१) मानः सर्गः ॥ ३१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः



  1. प्रोक्षसि पुनः-ङ.