422
[अयोध्याकाण्डः
सुमित्राश्वासनम्
पुनः प्रविष्टं दृष्ट्वा तं अभिषिक्तं महाश्रियम् ।
समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः ॥ २३ ॥
मा शोकः,देवि ! दुःखं वा न रामे दृश्यते [१]शिवम् ।
क्षिप्रं द्रक्ष्यसि पुत्रं [२]तं ससीतं सहलक्ष्मणम् ॥ २४ ॥
रामे-रामविषये दुःखादिकं मास्तु । कुत इत्यतः-शिवं भद्रमेव तत्र दृश्यते, वनेऽपीति शेषः ॥ २४ ॥
[३][४]त्वयाऽशेषो जनश्चैव समावास्यो यदाऽनघे !
किमिदानी[५]मिमं, देवि ! करोषि हृदि विक्लवम् ॥ २५ ॥
हे अनघे ! यदा-यस्मात् त्वया स्वामिन्या अशेषोऽयं त्वत्परिवारजनः समाश्वास्यः, सा त्वं किमिदानीं विक्लबं करोषि ॥ २५ ॥
नार्हा त्वं शोचितुं, देवि ! यस्यास्ते राघवः सुतः ।
न हि [६]रामात् परो लोके विद्यते सत्पथे स्थितः ॥ २६ ॥
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् ।
मुदाऽश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव [७]वार्षिकी ॥ २७ ॥
मेघस्य लेखा-रेखा तथा ॥ २७ ॥
पुत्रस्ते वरदः क्षिप्रं अयोध्यां पुनरागतः ।
पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ २८ ॥
- ↑ ऽशुभम्-ङ.
- ↑ त्वं-च.
- ↑ शेषः परिवारजनः यदा त्वया समाश्वास्यो वर्तते, एवंस्थिते भवत्या विक्लबः अनुचित इति वा भावः ।
- ↑ त्वया शेषः-च.
- ↑ मिदं-च.
- ↑ रामाद्वरो-ङ,
- ↑ वार्षिकी-वर्षाकालिकी ।