पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४ सर्गः]
421
देवानामपि देवो यः स तु शोच्यः कथं तव ।

 दैवतं [१] दैवतानां च भूतानां भूतसत्तमः ।
 तस्य के ह्यगुणाः, देवि ! राष्ट्रे वाऽप्यथवा पुरे ॥ १६ ॥
 पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः ।
 क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥ १७ ॥
 [२]दुःखजं विसृजन्त्यश्रु निष्क्रामन्तमुदीक्ष्य यम् ।
 अयोध्यायां जनास्सर्वे शोकवेगसमाहताः ॥ १८ ॥

 दुःखजमित्यादिना कालान्तरेऽपि राज्यार्हता जनानुरागप्रदर्शनेन प्रकाश्यते ॥ १८ ॥

 कुशचीरधरं [३]देवं गच्छन्तमपराजितम् ।
 सीतेवानुगता लक्ष्मीः तस्य किं नाम दुर्लभम् ॥ १९ ॥

 सीतेवेति । सीतात्मना लक्ष्मीरेवानुगतेत्यर्थः ॥ १९ ॥

 [४]धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।
 लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम् ॥ २० ॥

 धनुः गृह्णन्तीति धनुर्ग्रहाः-शूराः, तेषां वरः श्रेष्ठः ॥ २० ॥

 निवृत्तवनवासं तं द्रष्टाऽसि पुनरागतम् ।
 जहि शोकं च मोहं च, देवि ! सत्यं ब्रवीमि ते ॥ २१ ॥

 द्रष्टाऽसि–इति लुट् ॥ २१ ॥

 शिरसा चरणावेतौ [५]वन्दमानमनिन्दिते !
 पुनर्द्रक्ष्यसि, कल्याणि ! पुत्रं चन्द्रमिवोदितम् ॥ २२ ॥


  1. देवतानां-च.
  2. यतस्सर्वे जना अश्रु विसृजन्ति-रामे सुतरामासक्ता वर्तन्त इति भावः । अतः-स रामः पुनरभिषेक्ष्यत एवेति पूर्वश्लोकस्थेनान्वयः ।
  3. रामं-ङ.,वीरं-च.
  4. धनुर्धरवरो–ङ.
  5. वन्दमानं दिने दिने ङ,