पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
420
[अयोध्याकाण्डः
सुमित्राश्वासनम्

 ब्रह्मा–ब्रह्मवत् सृष्टिकर्ता विश्वामित्रः । तिमिध्वजसुतः-सुबाहुः ॥ ११ ॥

 स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः ।
 असंत्रस्तो ह्यरण्येऽसौ वेश्मनीव निवत्स्यति ॥ १२ ॥
 [१]यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः ।
 [२]कथने पृथिवी तस्य शासने स्थातुमर्हति ॥ १३ ॥

 तस्य रामस्य कथने यः प्रवृत्तः, तस्य च शासने पृथिवी स्थातुमर्हति । तत् कुतस्तस्य कुत्रापि भीप्रसङ्ग इति शेषः ॥ १३ ॥

 या श्रीः शौर्यं च रामस्य या च कल्याणसत्वता[३]
 निवृत्तारण्यवासः सः क्षिप्रं राज्यमवाप्स्यति ॥ १४ ॥

 स यदा निवृत्तवनवासो भवति तदा श्र्यादिः पुनस्तं क्षिप्रमवाप्स्यतीति योजना ॥ १४ ॥

 सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः ।
 श्रियः श्रीश्च भवेदग्र्या कीर्तिः कीर्त्याः [४]क्षमाक्षमा ॥

 सूर्यस्यापि सूर्य इत्यादिकं तथास्वभावब्रह्मावतारत्वात् वास्तवम् । प्रभोः-इन्द्रादेश्च प्रभुः ॥ १५ ॥


  1. वने रामस्य सौख्यं भवतु, भरतस्य रूढमूलत्वात् रामस्य राज्यं न सिध्यतीत्याशंक्याह-यस्येति–गो.
  2. कथं न सर्वत्र.
  3. एतैरसाधारणहेतुभिरिति शेषः,
  4. षष्टीतत्पुरुषः ।