पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४ सर्गः]
419
न शोच्यो रामचन्द्रस्ते धर्मात्मा सत्यसङ्गरः

 कीर्तिभूतां-कीर्त्यात्मना सम्भूतां पताकां-ध्वजं लोके-त्रैलोक्येऽपि यः प्रभू रामः भ्रामयति-नित्यं प्रवर्तयति, दमादिपरस्सोऽसौ तवात्मजः, किं न प्राप्तः-कस्य श्रेयसे न योग्यः ? अतो वनेऽपि तस्य श्रेयः-प्राप्तिरेवेति न शोचनीयता तस्य ॥ ७ ॥

 [१]व्यक्तं रामस्य विज्ञाय [२]शौचं माहात्म्यमुत्तमम् ।
 न गात्रमंशुभिः सूर्यः सन्तापयितुमर्हति ॥ ८ ॥

 तदेव प्रदर्श्यते-व्यक्तमित्यादि ॥ ८ ॥

 शिवः सर्वेषु कालेषु काननेभ्यो विनिस्सृतः ।
 राघवं शीतयुक्तोष्णः सेविष्यति सुखोऽनिलः ॥ ९ ॥

 शीतयुक्तोष्ण इति । सुखस्पर्श इति यावत् । अत एव सुखः-अदुःखकरः ॥ ९ ॥

 शयानमनघं रात्रौ पितेवाभिपरिष्वजन् ।
 रश्मिभिः संस्पृशन् शीतैः चन्द्रमा ह्लादयिष्यति ॥ १० ॥

 चन्द्रमाः इति पदम् ॥ १० ॥

 ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे ।
 दानवेन्द्रं हतं दृष्ट्वा [३]तिमिध्वजसुतं रणे ॥ ११ ॥


  1. सुमित्रा जन्मान्तरीयभगवदाराधनजनितसुकृतपरिपाकेन श्रीरामं परमात्मानं मत्वा मनसि निधाय वनेष्वातपादिषु संचरतो रामस्य सूर्यादिबाधा नास्ति, अपि तु तत्सेवैव भविष्यतीति कौसल्यामाश्वासयति-व्यक्तं रामस्येत्यादिश्लोकत्रयेण-ती.
  2. शौर्य-ङ.
  3. तिमिध्वजसुतः सुबाहुरिति कतककृतः तदयुक्तं–ताटकावधोत्तरं सुबाहुवधात् प्रागेव.... अस्त्रोपदेशस्य प्रागुक्तत्वात् । सुबाहोर्मारीचभ्रातृत्वस्य पूर्वमुक्तत्वेन शम्बरसुतत्वानौचित्याच्च-ति. कदाचिद्रामो दण्डकारण्यं गत्वा वैजयन्तं पुरं निरुध्य दशरथविरोधिभूतशम्बरसुतं हतवान् । तेन प्रीतो ब्रह्मा रामाय दिव्यास्त्राणि ददौ-गो., ती. तिमिः ध्वजे ययोस्तौसुन्दोपसुन्दौ–तयोस्सुतं-सुबाहुं हतं-हतप्रायं दृष्ट्वा-ज्ञात्वा-इत्यपि केचित् ॥