पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
418
[अयोध्याकाण्डः
सुमित्राश्वासनम्

 [१]यस्तवार्ये ! गतः पुत्रः त्यक्त्वा राज्यं महाबलः।
 साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ॥ ३ ॥

 सद्गुणयुक्तस्य न क्वाप्यपाय इति प्रतिपादयति-यस्तवेत्यादि । साधु-सुष्ठु ॥ ३ ॥

 शिष्टैराचरिते सम्यक् [२][३]शश्वत्प्राप्यफलोदये ।
 रामो धर्मे स्थितः श्रेष्ठः न स शोच्यः कदाचन ॥ ४ ॥

 शश्वत्प्राप्यः शुभफलस्य-सुखस्य उदयः यस्मिन् स तथा ॥ ४ ॥

 वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदाऽनघः ।
 [४]दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ ५ ॥

 सुसहायसंपत्तेश्च न शोच्य इत्याह-वर्तत इत्यादि। उत्तमां वृत्तिमिति। पितृतुल्यप्रतिपत्त्या शुश्रूषाव्यापारं इत्यर्थः ॥ ५ ॥

 अरण्यवासे यद्दुःखं [५]जानती वै सुखोचिता ।
 अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ ६ ॥

 अरण्यवासे यद्दुःखमस्ति, तज्जानती भर्तुस्तदपनयनार्थं वैदेह्यप्यनुगच्छति । अतो न दुःखप्रसङ्ग इति शेषः ॥ ६॥

 कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः ।
 [६]दमसत्यव्रतपरः किं न प्राप्तस्तवात्मजः ॥ ७ ॥


  1. य इत्यादि श्लोकद्वयमेकान्वयम्.
  2. प्रेत्यफलोदये-आमुष्मिकफलकारणे- गो.
  3. शश्वत्प्रेत्य-ङ., च.
  4. अनेन सर्वभूतदयावत्वेन लक्ष्मणस्य सर्वभूताधारभूधारकशेषावतारत्वं, धर्मानुगत्या जानक्याः श्रीत्वं च ध्वनितम्-ति.
  5. जानन्त्येव-ङ.
  6. धर्मसत्यव्रतपरः, धर्मःसत्यव्रतपरः, धर्मसत्यव्रतधनः, तपस्सत्यव्रतधनः-ङ.