पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४ सर्गः]
417
विलपन्ती तथा तो तु सुमित्रा वाक्यमब्रवीत्

 अयं हि मां [१]दीपयते [२]समुत्थितः
  तनूजशोकप्रभवो हुताशनः ।
 महीमिमां [३][४]रश्मिभिरुत्तम प्रभो !
  यथा निदाघे भगवान् दिवाकरः ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः


 उत्तम प्रभो इति द्विपदं, एकपदं वा । कारु (२१) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः


चतुश्चत्वारिंशस्सर्गः

[सुमित्राश्वासनम्]

 विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् ।
 इदं [५]धर्म्ये स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ १ ॥

 अथ सीतायाः त्रिजटेव, सुमित्रा कौसल्याशोकमपनयति-विलपन्तीमित्यादि ॥ १ ॥

 तवार्ये ! सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः ।
 किं ते विलपितेनैवं कृपणं रुदितेन वा ॥ २ ॥

 कृपणं यथा तथा रुदितेन वा किम् ? अयुक्तमेवेत्यर्थः । तत्र हेतुः—सद्गुणैर्युक्त इति ॥ २ ॥


  1. दीपयतेऽद्य वह्निः प्रभवो महाहितः-च.
  2. समुत्थितः-अभिवृद्धः ।
  3. उद्धतप्रभः-इति वह्निविशेषणं-गो. प्रकृत-व्याख्यानरीत्या सम्बुद्धथन्तम् ॥
  4. रश्मिभिरुद्धतप्रभः-ङ., च.
  5. धर्मे-च.