पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
416
[अयोध्याकाण्डः
कौसल्यापरिदेवनम्

 कदा परिणतो बुद्ध्या वयसा [१]चामरप्रभः ।
 अभ्युपैष्यति[२]धर्मज्ञः [३][४]सुवर्ष इव लालयन् ॥ १६ ॥

 बुद्ध्या वयसा च परिणत इति । अतःपरमपि चतुर्दशवर्षाणा- मदगमिष्यमाणत्वात् । सुवर्षः-समीचीनकालजलवर्षः । लालयन्निति । जनानिति शेषः ॥ १६ ॥

 निस्संशयं मया मन्ये पुरा, वीर ! कदर्यया ।
 पातुकामेषु वत्सेषु मातॄणां शातिताः स्तनाः ॥ १७ ॥

 पातुं कामः येषां ते पातुकामाः, तेषु । 'लुप्येदवश्यमः कृत्येऽन्त्यं काममनसोस्तुमः' इति मकारलोपः । वत्सलापुत्रवत्सला ॥ १७ ॥

 साऽहं गौरिव सिह्मेन विवत्सा वत्सला कृता ।
 कैकेय्या, पुरुषव्याघ्र ! बालवत्सेव गौवलात् ॥ १८ ॥

 साऽहं गौः सिह्मेनेव विवत्सा कृता । उक्तपातकेनेति शेषः ॥

 न हि तावद्भुणैर्जुष्टं सर्वशास्त्रविशारदम् ।
 एकपुत्रा विना पुत्रं अहं जीवितुमुत्सहे ॥ १९ ॥

 एवं कैकेय्या बालवत्सा गौरिव बलाद्विवत्सा कृताऽहं न जीवितुमुत्सह इति योजना ॥ १९ ॥

 न हि मे जीविते किञ्चित् सामर्थ्यमिह [५]कल्प्यते ।
 अपश्यन्त्याः प्रियं पुत्रं [६]लक्ष्मणं च महाबलम् ॥ २० ॥


  1. अमरप्रभः पञ्चविंशतिवर्षः । अमरा हि सदा पञ्चविंशतिवर्षाः ।
  2. धर्मात्मा-ङ.
  3. त्रिवर्ष इति पाठे--त्रिषु कालेषु वर्षः वर्षणं यस्य सः मेघः । प्रतिमासं वर्षत्रयस्य न्याय्यत्वात्तथोक्तिः ।
  4. त्रिवर्ष-ङ
  5. कल्प्यते दैवेनेति शेषः। कल्पत इति पाठे विद्यत इत्यर्थः-गो.
  6. महाबाहुं महाबलम्-ङ.