पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३ सर्गः]
415
स्मारं स्मारं प्रियं पुत्रं दुःखस्यान्तं ययौ न सा

 शोकस्य क्षयः यस्मिन् स काल इति योजना । यत्-यस्मात्-तादृशकालावगमात् ॥ ९ ॥

 [१][२]सुप्त्वेवोपस्थितौ वीरौ कदाऽयोध्यां गमिष्यतः ।
 यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ॥ १० ॥
 कदा प्रेक्ष्य नरव्याघ्रौ अरण्यात् पुनरागतौ ।
 भविष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥ ११ ॥
 कदाऽयोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति ।
 पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ १२ ॥
 कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ ।
 लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ ॥ १३ ॥
 प्रविशन्तौ कदाऽयोध्यां द्रक्ष्यामि शुभकुण्डलौ ।
 उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ॥ १४ ॥
 [३]कदा सुमनसः कन्याद्विजातीनां फलानि च ।
 [४]प्रदिशन्तः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥ १५ ॥

 कन्याश्च द्विजातयश्च ; द्वन्द्वः । तत्र कन्यानां सुमनसः-पुष्पाणि, द्विजातीनां फलानीति विवेकः । प्रदिशन्तः-प्रगृह्णन्तः हृष्टा भूत्वा पुरीं प्रदक्षिणं करिष्यन्ति, पौरजनोत्सवायेति शेषः ॥ १५ ॥


  1. 'अथ रात्र्यां प्रपन्नायां' इत्युक्तत्वात् एवं चिन्तनम् ।
  2. श्रुत्वेव- ङ., च.
  3. द्विजातीनां ब्राह्मणानां कन्याः, सुमनसः-पुष्पाणि फलानि च प्रदिशन्त्यस्सत्यः पुरीं कदा प्रदक्षिणं करिष्यन्ति । अयमौत्तराणां मङ्गलाचारः-गो.
  4. प्रविशन्त्यः, प्रदिशन्त्यः-ङ.