पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
414
[अयोध्याकाण्डः
कौसल्यापरिदेवनम्

 पातयित्वा तु कैकेय्या रामं [१]स्थानाद्यथेष्टतः ।
 [२]प्रविद्धो रक्षसां भागः [३]पर्वणीवाहिताग्निना ॥ ५ ॥

 रामं स्थानात्-स्वगृहावस्थानात् यथेष्टतः-स्वेच्छानुसारेण पातयित्वा-प्रभ्रश्य पर्वण्याहिताग्निना इष्टो रक्षसां भाग इव प्रविद्धः-निरस्तः ॥ ५ ॥

 गजराजगतिवरः महाबाहुर्धनुर्धरः ।
 वनमाविशते नूनं सभार्यस्सह लक्ष्मणः ॥ ६ ॥
 वने त्वदृष्टदुःखानां [४]कैकेय्यनुमते त्वया ।
 त्यक्तानां वनवासाय [५]काऽन्याऽवस्था भविष्यति ॥ ७ ॥

 कैकेय्यनुमते-कैकेयीवरानुमतिनिमित्तम् ॥ ७ ॥

 ते रत्नहीनास्तरुणाः फलकाले विवासिताः ।
 कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥ ८ ॥

 रत्नद्दीनाः–उत्तमवस्तुहीनाः । तरुणी च तरुणौ च तरुणाः, 'पुमान् स्त्रिया' इत्येकशेषः । फलकाले-युवावस्थत्वेन राजभोगानुभवकाले ॥ ८ ॥

 अपीदानीं स कालः स्यात् मम शोकक्षयः शिवः ।
 सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ ९ ॥


  1. राज्यात्-ङ.
  2. प्रदिष्टः-ङ.
  3. आहिताग्निना पर्वणि देवेभ्यो देयः हविर्भागः-पुरोडा शैकदेशः रक्षसामिव सर्वथाऽनुचितं स्वया कृतमिति भावः-गो. पर्वण्याहिताग्निना रक्षसां भागस्तुषादिरूपः विप्रवद्धः-प्रक्षिप्तः । इतः परं तदर्शनमसंभावितं, रक्षोभिनाशादिति व्यङ्गथम्-ति.
    पर्वण्याहिताग्निता ब्रीहिगततुषजालं यथा रक्षोभागत्वेन प्रदिष्टं तथा कैकेय्यापि रामो राक्षसभागत्वेन विनियुक्तः-ती.
  4. कैकेय्यानुमते-ङ.
  5. कान्ववस्था-ङ.