पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३ सर्गः]
413
कौसल्या पुत्रशोकार्ता विललाप भृशं तदा

त्रिचत्वारिंशस्सर्गः

[कौसल्यापरिदेवनम्]

 ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् ।
 कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम् ॥ १ ॥

 अथ कौसल्याया अनुक्रोशः-तत इत्यादि ॥ १ ॥

 राघवे, नरशार्दूल ! विषमुप्त्वा [१]विषमुप्त्वा [२]विजिह्मगा !
 विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ २ ॥

 विषं उप्त्वा-निक्षिप्य विजिह्मगा-कुटिलचरिता निर्मुक्तामुक्तकञ्चुकी पन्नगी-सर्पपुत्री ॥ २ ॥

 विवास्य रामं सुभगा लब्धकामा समाहिता ।
 त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ ३ ॥
 अथास्मिन्नगरे रामः चरन् भैक्षं गृहे वसेत् ।
  [३]कामकारो वरं दातुं अपि दासं ममात्मजम् ॥ ४ ॥

 भवतु भरतराज्यवरणम् ; अथापि इहैव नगरे रामो भैक्षं चरन् गृहे वसन् भूयादिति यदि वृतं भवेत् तदा तद्वरं दातुं, मम च कामकार एव-इष्टाचरणमेव । यथाकथञ्चिद्भवदानृण्यस्य ममापेक्षितत्वात् । इदानी-मेववरणेऽपि ममात्मजं प्रति न मे शोकः । तदपि न कृतम् । ममाति-त्रासनार्थमिति शेषः ॥ ४ ॥


  1. विजिह्यताम्-ङ., विषं मुक्त्वाsहिजिह्मगा-च.
  2. विजिह्मतां-कौटिल्यरूपं विषं-गो., अहिजिह्मगा-सर्पवत् कुटिलगतिः-ति.
  3. राज्याभावेऽपि ममात्मजं भरतस्य दासं दातुं कामकारः-इच्छा वरं वनवासात् तमः-गो.
    श्रेष्ठतमः-गो