पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
412
[अयोध्याकाण्डः
दशरथाक्रन्दः

 सुखिता इत्यादि । ये पुनरागतं रामं परिष्वजन्तः-परिष्वजमाना द्रक्ष्यन्ति, ये नरोत्तमाः तं कालं-तावत्कालपर्यन्तं जीविष्यन्ति ते किल सुखिता भविष्यन्ति ; नाहं जीर्णो बत ! ॥ ३२ ॥

 अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः ।
 अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत् ॥ ३३ ॥

 अथ-रामं रजन्यां प्रस्थाप्य पुनः रजन्यां स्वगृहप्रवेशानन्तरमित्यर्थः । रात्र्यां आत्मनः कालरात्र्यां-संहारराज्यामिव प्रपन्नायाम् ॥

 [१]त्वा पश्यामि, कौसल्ये ! साधु[२]मा पाणिना स्पृश ।
 [३]रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते ॥ ३४ ॥

 हे कौसल्ये त्वा-त्वां न पश्यामि-न वीक्षये । अतो मा-मां त्वदासत्तिपरिज्ञानाय पाणिना स्पृश । कुत एवमित्यतः-राममित्यादि । दृष्टेः दर्शनशक्तेः रामविषये समनस्काया विलीनत्वात्, इहत्यपदार्थो मदक्ष्णोर्न स्फुरतीत्यर्थः ॥ ३४ ॥

 तं राममेवानुविचिन्तयन्तं
  समीक्ष्य देवी शयने नरेन्द्रम् ।
 उपोपविश्याधिकमार्तरूपा
   [४]विनिश्वसन्ती विललाप कृच्छ्रम् ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्विचत्वारिंशस्सर्गः


 मृग (३५) मानः सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्विचत्वारिंशस्सर्गः



  1. त्वां-ङ.
  2. मां-ङ.
  3. राममातृत्वात् त्वत्स्पर्शः किञ्चिदिवाप्यायकः स्यादिति वा ।
  4. विनिश्वसन्तं-ङ.